SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ४२ चन्द्रराजचरित्रम् निवेद्य चरितं स्वीयं, जगादाऽथ गुणावली । 'जाग्रत्सु पौरलोकेषु, कथं यास्यामि निर्भयम् ? ।। ३९८ ।। यदि ज्ञात्वेति वृत्तान्तं, राज्ञे कोऽपि निवेदयेत् । भवेत् तदा गतिः का मे ?, पूर्वमेतद् विचारय' ॥३९९ ।। श्रुत्वोचे सा 'त्वया चिन्ता, न कार्याऽहं करोमि तत्। येन निद्रावशीभूता, जनाः स्थास्यन्ति नागराः ॥४०० ।। यदि कश्चिदकस्मान्मे, गृहद्वारं समाव्रजेत् । तदा तस्य प्रभावोऽत्र, न स्फुरेद् वरसुन्दरि !' ॥४०१ ॥ इति श्रुत्वा नरेन्द्रोऽसौ, तद्वारे निभृतं स्थितः । स्थापयित्वा वधू सा च, गृहान्तः समुपाविशत् ॥४०२ ॥ विधाय गर्दभीरूपं, बहिर्गत्वा खरस्वरम् । उच्चैश्चकार तेनाऽऽसन्, निद्रोन्मत्ताः समे जनाः ।।४०३ ॥ इति निद्रापराधीनान्, जनान् कृत्वा निजं वपुः । विधायाऽसौ समागच्छद्, गुणावल्याः पुरः पुनः ।। ४०४ ॥ 'पुत्रि ! मद्विद्यया सर्वे, पौरलोका मृता इव । चल त्वं चन्दनोद्याने, चूतवृक्षस्य सन्निधौ ॥४०५ ॥ मन्त्रप्रसादाद् वृक्षः स, निमेषान्तरमात्रतः । प्रापयिष्यत्यतो देशाद्, विमलानगरीं वधु !' ।।४०६ ।। राजाऽप्यपरमातुस्त-दाकर्ण्य वचनं तदा । खड्गमादाय वृक्षस्य, कोटरे समुपाविशत् ।।४०७ ।। अथ द्वे ते क्षणादेव', तत्राऽऽजग्मतुरञ्जसा । अनालोक्यैव राजानं, वृक्षमूचे कृताञ्जलिः ।। ४०८ ॥ १. 'अथ क्षणादेव ते द्वे' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy