________________
सर्गः - १ द्वारदेशस्थितश्चन्द्रो, निभृतं तद्रहोवचः । सर्वमाकर्णयामास, न केनाऽप्युपलक्षितः ।। ३८७ ।। ततो वीरमती प्रोचे, 'गच्छाऽऽराममितो वधु ! । करवीरस्य शाखां त्वं, गृहीत्वाऽऽगच्छ मत्पुरः ॥३८८ ॥ तां मन्त्रयित्वा ते दास्ये, यया त्रिस्ताडितस्तव । पतिर्निद्रापराधीनः, स्वप्यादागमनावधि' ।।३८९ ।। इति श्रुत्वा ययौ शीघ्र-मारामं रात्रिकृद्भयम् । बभूव नैव नारीणां, किमकृत्यं कुयोगतः ? ॥३९० ।। राजा तामबलां मत्वा-ऽनुगतो' वाटिकां प्रति । प्रेमा (-म) प्रायः प्रियारक्षा-विधौ प्रेरयते बलात् ।। ३९१ ॥ यावच्छाखां गृहीत्वा सा, श्वश्रूसन्निधिमाययौ । तावद् राजा समागच्छत्, स्वपर्यङ्के न लक्षितः ॥३९२ ।। वस्त्रैर्नरं विधायाऽथ, शय्यायां तमसूषुपत् । आच्छाद्य वसनेनाऽऽशु, गुप्तः स्वयमुपाविशत् ॥३९३ ।। इतो वीरमतीदत्तां, शाखामेषाऽभिमन्त्रिताम् । आदाय तरसा पत्युः, शयनागारमभ्यगात् ।।३९४ ।। संभ्रमात् तमजानत्य-ताडयत् कृत्रिमं नरम् । ततस्तत्क्षणमेवाऽसौ, कृतार्था न्यवृतद् द्रुतम् ।।३९५ ।। राज्ञा सर्वं समालोक्य, चिन्तितं 'हा ! कथं मम । माता निजवधूमेवं, शिक्षयत्यतिगर्हितम्' ।।३९६ ।। इत्यालोच्य पुनस्तत्रा-ऽऽजगामाऽसिसहायवान् । न धीरा भयहेतौ हि, बिभ्यति क्वचिदण्वपि ॥३९७ ।। १. '-ऽन्वगाद्' इति पाठा० ।। २. 'रांजा तन्न विजानाति, सबला सा तदाऽभवत्' इति पाठा० ।।