________________
४०
चन्द्रराजचरित्रम्
इतः सन्ध्या समागच्छद्, रागरक्तेव तत्क्षणे । कार्यान्तरासक्तमना - स्ततः साऽभूत् ससम्भ्रमा ।। ३७७ ।। इति तां चञ्चलां दृष्ट्वा, विस्मितोऽचिन्तयन्नृपः । सुशीलेयं कुतो दुष्ट - शीलावच्चेष्टतेऽधुना' ।। ३७८ ।। तन्नूनं दुष्टशीलायाः, कृतसङ्गाऽनुमीयते । जन्तोर्गुणा वा दोषा वा, सङ्गतन्त्राः प्रकीर्तिताः ।। ३७९ ।। मां पतिं समवाप्याऽपि, केन सार्धमियं पुनः । प्रीतिबन्धं चकाराऽऽशु, सङ्गदोषेण मत्प्रिया ॥ ३८० ॥ इति सो मुखमाच्छाद्य, वस्त्रेण चतुराग्रणीः । व्याजनिद्रामुपाश्रित्य ददर्शाऽस्य विचेष्टितम् ।। ३८१ ।। गाढान्धसमये राज्ञी, सुप्तं ज्ञात्वा महीपतिम् । मत्तमातङ्गगमना-ऽगच्छद् बहिरथ द्रुतम् ।। ३८२ । राजाऽपि शितमादाय, खड्गं तामनुजग्मिवान् । बुबुधे सा सा न तमसि मेघेन द्विगुणीकृते ॥ ३८३ ॥ वधूमार्गं विचिन्वन्ती, वीरमत्यपि तत्क्षणे । समागतां तामलोक्य सदकार्षीद् गुणावलीम् ॥ ३८४ ॥ पश्चान्मन्त्रस्य माहात्म्यं, जगाद घनकारणम् । श्रुत्वा सा कथयाञ्चक्रे, 'मातस्त्ववचनादहम् ।। ३८५ ।। सुप्तं प्रियतमं त्यक्त्वा, समायाताऽस्मि साम्प्रतम् । यदाज्ञापयसीदानीं, तत्करिष्यामि निश्चितम् ' ।। ३८६ ॥ युग्मम् १.‘राजा विस्मयमागतः । इतोऽग्रे - ' मुखमाच्छाद्य वस्त्रेण, तस्याः कृत्यमलक्षयत्' इति दृश्यते ।। २. 'सुशीलेयं यतो दुष्ट- शीलावद् यततेऽधुना' इति पाठा० ।। ३. 'परन्तु चतुरस्याऽग्रे, चातुर्यं प्रकटं विना । कथं तिष्ठेदिति क्ष्मापो, ददर्शाऽस्या विचेष्टितम् ।।' इति पाठा० ।। ४. 'भृशं वधूम्' इति पाठा० ।।