________________
सर्गः - १
३९
बलाका समयं ज्ञात्वोत्पपाताऽम्बरमण्डले । अविच्छिन्नो जलासारः, पपात धरणीतले ।।३६७ ।। घनाघनस्य समय-मित्थं कृत्वा च देवता । विज्ञाप्यं राजजननी, स्वकीयं धाम प्रास्थित ॥३६८ ॥ घनागममथाऽऽलोक्य, मन्मथोद्योतकारकम् । सभां विसृज्य नृपति-र्गुणावल्या गृहं ययौ ।।३६९ ।। गुणावली दिने भूप-मागतं प्रसमीक्ष्य सा । विस्मिता वचनं तस्याः, सत्यं मेने विलासिनी ॥३७० ॥ बद्धाञ्जलिः प्रियतम-मुवाच 'दिवसे कथम् ? । समागतोऽसि, वैलक्ष्यं, लक्ष्यते ते कथं प्रिय !' ॥३७१ ॥ इति तद्वचनं श्रुत्वा, राजोवाच 'शृणु प्रिये ! । अकालवारिदो वायुः, शीतलश्च समागतः ।।३७२ ।। तेन कोमलमङ्गं मे, कम्पतेऽश्वत्थपत्रवत्' । इति तद्वचनाद् राज्ञी, शय्यां स्ती| यथासुखम् ॥३७३ ।। प्रेम्णा तं स्वापयामास, कस्तूर्यादिचिकित्सितम् । अङ्गेनारायणाख्येन, तैलेनाऽभ्यञ्जयश्चसा ।।३७४ ।।(युग्मम्) गुग्गुलादिकधूपस्य, धूमं दत्त्वा यथाविधि । शीतभीतिं नृपस्याऽसौ, सद्यः शान्तिमुपानयत् ॥३७५ ।। अथ सुप्तं नृपं वीक्ष्य, चतुरा सा गुणावली । संवाहनं करोति स्म, पादयोस्तस्य रागतः ।।३७६ ।। १. 'प्रभो !' इति पाठा० ।। २. 'कम्पते कदली यथा' इति पाठा० ।। ३. '-अयत् पतिम्' इति पाठा० ।। ४. इतोऽग्रे- 'क्षणे क्षणे प्रबोधाय, तस्याऽयतत साऽङ्गना ।।' इति निष्कासितः पाठो दृश्यते ।।