________________
T
३८
चन्द्रराजचरित्रम् स्वापयेः कूटनिपुणा', प्रबोध्य स्ववधूमिति' । अगच्छद् भवनं स्वीयं, श्रीमद्वीरमती ततः ।। ३५७ ॥(युग्मम्) गुणावली स्वमनसि, चिन्तयामास चेतसि । 'श्वश्रूर्ममाऽतिकुशला, तद्वचो न च सम्भवि ॥३५८ ।।
आयाति' यदि मे स्वामी, शीघ्रमद्य गृहं प्रति ।। तदा तस्या वचः सत्यं, मन्येयाऽहं न चाऽन्यथा' ॥३५९ ।। अथ वीरमती विद्या, सिषाधयिषुरात्मनः । सन्ध्याकाले समारेभे, जपहोमादिकं गृहे ॥३६० ॥ तत्पुरो देवताऽऽगत्यो-वाच 'किं तेऽस्त्यभीप्सितम् ।
येन स्मृताऽस्मि तत्कार्य, ब्रूहि शीघ्रं करोम्यहम् ' ।। ३६१ ॥ सोचेऽद्य दिवसे राजा, सभां त्यक्त्वा दिने गृहम् । समागच्छेत् तथा कार्य, न तेऽसाध्यं किमप्यहो !' ॥३६२ ॥ देवतोवाच 'वनिते !, कमैतत्सुकरं नहि । तथाऽपि तत्करिष्यामि, साम्प्रतं ते वशंवदा' ॥३६३ ॥ इतोऽत्र समये काल-घटाजालभयङ्करः । मेघः प्रादुर्बभूवाऽथ, केकिकेकासमन्वितः ॥३६४ ॥ खलानां धिषणेव, द्यौस्तिमिरच्छन्नतामगात् । कामदेवस्य खड्गस्य, प्रभेव तडिदाबभौ ॥३६५ ॥ पथिकानां तर्जनेव, हृदयास्वास्थ्यकारिणी । घननिर्घोषणा सद्यः, प्रससार दिगङ्गणे ॥३६६ ॥ १. '-श्चतुरा चेत्थं' इति पाठा० ।। २. '-मसौ' इति पाठा० ।। ३. 'तद्वचः' इति पाठा० ।। ४. 'तथाऽपि न हि तद्धितम्' इति पाठा० ।। ५. 'तथाऽपि' इति पाठा० ।। ६. 'शीघ्रमायाद्' इति पाठा० ।। ७. 'मौनं विसर्जय' इति पाठा० ।।, इतोऽग्रे- 'ततो वीरमती प्रोचे, देवि ! चन्द्रः सुतो मम । यथा मद्वचनं कुर्यात्, तथैतर्हि विधीयताम् ।।' इति निष्कासितः श्लोको दृश्यते ।। ८. 'यथाऽद्य' इति पाठा ।। ९. 'न ते कार्यं दुरासदम्' इति पाठा० ।।