________________
सर्गः - १
३७ तस्य लक्ष्मीरिव गुणैः, कन्याऽस्ति प्रेमलाभिधा । यां विधिः स्नेहतो नूनं, रचयामास कौशलात् ॥३४६ ॥ श्रीसिंहरथनामाऽस्ति, सिंहले पृथिवीपतिः । कनकध्वजनामाऽस्य, पुत्रस्तां परिणेष्यति ।।३४७ ।। अस्यां रात्रौ यदि भवेद, दिदृक्षा तव सुन्दरि ! । तदाऽहं दर्शयेयं त्वां, तत्पाणिग्रहणोत्सवम्' ।।३४८ ॥ इति श्वश्रूवचः श्रुत्वा, हर्षमाप गुणावली ।। 'भाग्यतस्त्वाशी श्वश्रू-र्मया प्राप्ताऽधुना खलु ॥३४९ ॥ परं कथं दूरमितो, गम्येत रात्रिमात्रतः ? । देवगम्यं पदं यच्च, गच्छेत् तन्मानुषी कथम् ?' ।।३५० ॥ 'अयि ! दूरमिति श्रुत्वा, विस्मिताऽसि कथं पुनः? । लक्षयोजनमप्येक-रात्रितो गन्तुमुत्सहे' ॥३५१ ।। इति श्रुत्वा प्रशस्याऽसौ, श्वश्रू भूरि गुणावली । तया चमत्कृता प्रोचे, 'शृणु मातरिदं वचः ॥३५२ ।। सभेयं तव पुत्रस्य, यावत् सन्ध्यां प्रवर्तते ।। कथङ्कारं त्वया तस्याः, कर्तुं शक्यं विसर्जनम् ? ॥३५३ ।। 'रात्रेर्यामे गते पुत्रस्तवा-ऽऽयास्यति मेऽन्तिकम् । ततो यामद्वयं हास्य-निद्राद्यैर्गमयिष्यति ॥३५४ ।। पश्चाद् यामावशेषायां, रजन्यां वल्लभो मम । जागर्त्यतो न मे मात-रवकाशः कथञ्चन' ॥३५५ ॥ तन्निशम्याऽऽह 'रे मुग्धे !, तवाऽद्य पतिरन्तिकम् । आगच्छेदतिशीघ्रं तं, सन्तोष्य निजकौशलैः ॥३५६ ॥ १. 'अद्य-' इति पाठा० ।। २. '-निद्रादिना प्रयास्यति ('गमिष्यति', 'व्यतिष्यति' इति च पाठा०)' इति पाठा० ।।