________________
चन्द्रराजचरित्रम् यद् रात्रौ रंस्यसे सोऽयं, तव भर्ता कथं वधु ! । लक्षयिष्यति तद् निद्रा-पराधीनोऽतिमुग्धवत् ॥३३७ ।। यदि चन्द्रो विजानीया-त्रो तदाऽपि भयं तव । मशकोत्पाततोऽगारं, किं त्यजन्ति जनाः क्वचित् ?' ।।३३८ ।। इति श्वश्रूवचः श्रुत्वा, हर्षमाप गुणावली । दुष्टसङ्गेन लोकानां, न दोषो जायते किमु ? ॥३३९ ॥ 'तव विद्याप्रभावेण, मां राजाऽपि न लक्षयेत्' । इति निश्चित्य 'हे श्वश्रु !, त्वदधीनाऽस्मि साम्प्रतम् ।। ३४० ॥ परन्तु मात, लज्जा, तव हस्तेऽधुना किल । तदेतदनुसन्धेहि, यथोक्तं ते करोम्यहम् ॥३४१ ॥ वशीभूतेयमित्येवं, ज्ञात्वा वीरमती जगौ । 'जगत्स्वापकरी विद्या, ममाऽस्ति शुभदर्शने ! ॥३४२ ।। तयाऽहं नगरं सर्वं, "शववत् स्वापये चिरम् । एको राजा न मे चिन्ता-हेतुः स्यादिति निश्चितम् ॥३४३ ।। दृश्यं कौतूहलं ते चेत्, तदा शृणु पुरादतः । अष्टादशशतक्रोश-पर्यन्ते विमलाघुरी ।।३४४ ।। मकरध्वजनामाऽत्र, मकरध्वजरूपवान् । राजाऽस्ति सर्वभूपाल-नमस्कृतपदद्वयः ।।३४५ ।।
१. 'भोत्स्यते' इति पाठा० ।। २. 'दर्शयस्व विचित्राणि, कौतुकानि स्वविद्यया (दृश्यानि निजविद्यया)' इति पाठा० ।।, इतोऽग्रे- 'विद्याबलेन तनयं, वशीकृत्य प्रवर्त्यताम् । या नरी नृत्यते नारी, तस्या लज्जा कुतो भवेत्' ।। इति निष्कासितः श्लोको दृश्यते ।। ३. 'चिन्तयित्वाऽवदत् ततः' इति पाठा० ।। ४. 'मृत-' इति पाठा० ।।