SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ३५ सर्गः - १ खगश्च पवनश्चैव, यथेष्टं गच्छति क्वचित् । पतिं विना न नारीणां, देशाटनमिहोचितम्' ॥३२७ ॥ तदा वीरमती प्रोचे, 'मुग्धे ! भीतेव लक्ष्यसे । यन्नारी विदधात्याशु, कुर्यात् तत्पुरुषः कथम् ? ॥३२८ ।। न कोऽपि नारीचारित्र्य-पारदृश्वा नरः क्वचित् । ये न नारीवशीभूता-स्ते दृश्यन्ते न कुत्रचित् ॥३२९ ।। नारी भीषणकान्तार-दुरारोहगिरिव्रजम् ।। उल्लङ्घयति क्रोधान्ध-मप्यधीनीकरोत्यहिम्' ॥३३० ।। बिभेति सिंहादपि नो, पारमेति महोदधेः । वह्नेरपि शिखां धत्ते, किं न कुर्वन्ति योषितः ? ॥३३१ ।। प्रसीदति यदा नारी, तदा कल्पलतायते । अप्रसन्ना यदा सा स्याद्, विषवल्लीयते तदा ।।३३२ ।। पत्युर्बिभेति या नारी, तस्या जन्म निरर्थकम् । न शिक्षयति कोऽप्यस्या-श्चरित्रं निजमञ्जसा ॥३३३ ।। को बर्हिणश्चित्रयति, मरालस्य गतिं तथा । कः शिक्षयति सिंहस्य, कुम्भिकुम्भविभेदनम् ॥३३४ ॥ अतः स्वभावतः प्राणी, गुणं प्राप्नोति निश्चितम् ।। मनागपि भयं पुत्रि !, कार्यं चन्द्रान्नहि त्वया ॥३३५ ।। आकाशगामिनी विद्या, रेममाऽस्ति वरसुन्दरि ! । रन्त्वा निशि तया प्रात-रागच्छेव गृहं प्रति ।।३३६ ।। १. -भयङ्कर-' इति पाठा० ।। २. इतोऽग्रे- 'मञ्जूषा कपटस्येयं, युवतिनिजकौशलैः । वेगशीलापगापारं, यात्यसावञ्जसा वधु ! ।।' इति निष्कासितः श्लोको दृश्यते ।। ३. 'मय्यस्ति' इति पाठा० ।। ४. 'तया निशि रमित्वाऽऽवामागच्छेव' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy