SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ३४ चन्द्रराजचरित्रम् त्वं योग्यसमये मादृक्-श्वश्रू प्राप्याऽपि सुन्दरि ! । न कौतुकमलोकिष्ठा, इत्यतश्चिन्त्यते मया ॥३१६ ॥ नवं तीर्थं नवो देशो, नवं राज्यं नवं वनम् । नवं सर्वं यया दृष्टं, तस्याः फलति जीवितम् ॥३१७ ॥ वनस्थमालतीवत् ते व्यर्थं भामिनि ! जीवनम् । चित्रशोभान् परान् देशा-नपश्यन्त्याः सुकौतुकान् ॥३१८ ।। तानदृष्ट्वा कुतः सौख्यं, तव राजसुते ! वधु ! । त्वत्तो वरं पक्षिणो यद्, विचरन्ति यथेप्सितम् ॥३१९ ॥ गेहेशूराश्च ये लोका, ये च पण्डितमानिनः । ते सर्वे स्वगृहे पूज्या, न तु देशान्तरे क्वचित् ॥३२० ॥ धनस्याऽऽहुर्यथा दानं, फलं सत्त्वस्य रक्षणम् । तथा देशाटनं प्राहु-र्जन्मनः शोभनं फलम्' ।।३२१ ।। इति श्वश्रवचः श्रत्वा, वधः प्रोवाच 'हा कथम् ? । देशाटनमहो मातः !, क्रियते योषिता मया' ॥३२२ ।। या स्वेच्छाचारिणी बाला, कौतुकाद् भयवर्जिता । निरङ्कुशा भ्राम्यति सा, देशाद्देशान्तरं सदा ।।३२३ ।। अहं तु राजवनिता, बहिर्यास्यामि तत्कथम् । राजाऽधीनाऽस्मि स्वच्छन्दा, नैव तत्त्वं न वेत्सि किम् ? ।। ३२४ ।। यदि ते वचनेनाऽह-मस्मि देशाटनोत्सुका । तथापि तन्न घटते, विशेषेण हि मादृशाम् ॥३२५ ।। यद्यहं कपटं कृत्वा, प्रयायां तच्च मे प्रियः । लक्षयेत् तर्हि न हि मे, शान्त्यै देशाटनं भवेत् ॥३२६ ॥ १. 'मानुषत्वं' इति पाठा० ।। २. 'प्रगच्छति' इति पाठा० ।। ३. 'तान्यदृष्ट्वा' इति पाठा० ।। ४. 'नास्मि हे श्वश्रु ! सर्वदा' इति पाठा० ।। ५. 'यदि स प्रभुः' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy