SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सर्गः - १ सन्त्यन्ये' जगत्यत्र, जगदाह्लादिनः परम् । चन्द्र एवाऽद्वितीयोऽस्ति, चन्द्रशेखरभूषणः ।।३०६ ।। वने मृगा अनेकेऽपि, भवन्ति तृणभक्षकाः । किन्तु 'पुष्कलकस्तत्र, जायते कोऽपि सन्मृगः ॥३०७ ।। चन्द्रश्चन्द्र इवाऽऽभाती-तरेभूपा नखा इव । तस्य पादसरोजस्य, मन्येऽहं जननि ! क्षितौ ।।३०८ ।। पुष्पितः फलितो यत्र, कल्पवृक्षः प्रशस्यते । एरण्डभूरुहस्तत्र, न कैश्चित् स्तूयते जनैः ।।३०९ ।। तवाऽऽत्मजसमो मात-र्नास्ति नास्ति जगत्त्रये । स स्वामी मम तेनाऽहं, धन्यं मन्ये निजं जनुः ।।३१० ।। गुणावल्या वचः श्रुत्वा, ततो वीरमती जगौ । 'सत्यं चन्द्रोऽतिरम्योऽस्ति, तथाऽपि शृणु मद्वचः ।।३११ ।। पृथ्वीयं बहुरत्नाऽस्ति, तस्माच्चन्द्रादपि वधु' ! गुणवान् रूपवान् धीमान्, विद्यते जगतीतले ॥३१२ ।। अनालोकितपृथ्वीका, त्वमेवं प्रब्रवीषि हि । अद्रक्ष्यः पृथिवीं त्वं चेत्, तदा नैवमवक्ष्यथाः ॥३१३ ।। आभापुरीं विलोक्यैव, त्वं जाताऽसि विवेकिनी । अयं रम्यो न रम्योऽसा-विति मिथ्यावचोग्रहा ॥३१४ ॥ जन्मनस्तव वैफल्य-मित्यहं वच्मि भामिनि ! ।। क्रोधं मा कुरु यतं च, चर कौतुकदर्शने ॥३१५ ॥ १. 'अन्ये सन्ति' इति पाठा० ।। २. 'गन्धमृगः' इति टि० ।। ३. इतोऽग्रे'वैशाखनन्दनायन्ते, मातस्त्वत्सूनुसन्निधौ । गजेन्द्रा यत्र मीयन्ते, खरस्तत्र नखायते ॥१।। विद्रुमप्रतिमश्चन्द्रो-ऽन्ये राजानः पतङ्गवत् । नक्षत्राणां यथा चन्द्रस्तथाऽयं मम वल्लभः ।।२।।' इति निष्कासितौ श्लोकौ दृश्यते ।। ४. 'जन्म' इति टि० ।। ५. 'प्रिये !' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy