________________
३२
चन्द्रराजचरित्रम् हे सुन्दरि ! जगत्यस्मिन्, गुणे रज्यन्ति जन्तवः । न रूपे न धने क्वाऽपि, न सद्वंशभवे तथा ।।२९८ ॥ त्वं मूर्खेव न जानीषे, हिताहितमवेक्षितुम् । केवलं क्षणिकेनैव, सुखभोगेन तुष्यसि ॥२९९ ।। त्वमात्मानं बुद्धिमतीं, मन्यसे राज्यगौरवात् । अहं त्वामनया वाचा, जाने चातुर्यवर्जिताम्' ।।३०० ।। गुणावली निशम्यैत-दूचे, 'का न्यूनता मयि ? । यदित्थमसकृन्मां त्वं, निन्दसि श्वश्रु ! साम्प्रतम् ।।३०१ ॥ जगत्त्रयललामोऽसौ, तव पुत्रो महीश्वरः । पतिर्मम, न यस्याऽस्ति, गुणैरन्यः समो भुवि' ॥३०२ ॥ 'गुणावलि ! न ते स्वामी, गणनीयोऽस्ति सजनैः । अदृष्टगुणिवर्या त्व-मतः प्रलपसीति माम् ॥३०३ ।। नहि व्यक्षो विजानाति, 'जगद्पमनुत्तमम् । समुद्रस्य तरङ्गं हि, वेत्ति किं कूपदर्दुर:६' ।।३०४ ।। इति श्वश्रूवचः श्रुत्वा, पुनरूचे गुणावली ।। 'नो वदैवं भवेदन्यः, कोऽत्र रूपाधिको भुवि ? ॥३०५ ।।
१. 'त्वां वचनेनैव' इति पाठा० ।। २. 'मम कथं मतिः' इति पाठा० ।। ३. 'अज्ञात्वोच्यते सदसद्विचाररहिता त्वया' इति पाठा० ।। ४. 'व्यक्षी' इति पाठा० ।। ५. 'रते' इति पाठा० ।। ६. इतोऽग्रे- 'वन्यो न हि विजानाति, नागरस्य सुखं तथा। न निम्बरसविद् वेत्ति, रसालस्य रसालताम् ।। १ ।। यो न भृङ्गारमैक्षिष्ट, स वाञ्छति कमण्डलुम् । काकवाक् तस्य मधुरा, यश्चाऽश्रुतपिकस्वरः ।। २ ।। तैलकारस्य वृषभो, हलं वहति किं क्वचित् ? । मत्कुणः किं विजानाति, शुभाशुभविचारणाम् ।।३ ।। सुन्दरः कोऽपि भातीग्, यस्य रूपे विलोकिते । कामदेवाश्विनीसूनु-प्रमुखा अप्यकिञ्चनाः ।। ४ ।।' इति निष्कासिताः श्लोकाः दृश्यन्ते ।।