________________
सर्गः १
-
३१
पद्मिन्याः सौरभं यद्व-दिक्षुतो रसनिःसृतिः । तथा त्वद्विनयः सुभ्रु !, निसर्गादेव निर्मितः १ ।। २८८ ।। सौभाग्यं भुङ्क्ष्व चाऽऽकल्पं, चन्द्रेण सह सुन्दरि ! |
मम प्राणसमाऽसि त्वं वधूः सर्वजनप्रिया ।। २८९ ।।
"
त्वां पुत्रीसदृशीं मन्ये, न च मे वचनं त्वया । उल्लङ्घनीयमित्येव - माशासेऽहं सदैव हि ।। २९० ।। यदि त्वं मम वाक्येऽसि, सर्वथा विनयान्विते ! | सर्वविद्या तवैवाऽस्ति मम नाऽस्त्यत्र संशयः ' ।। २९१ ॥
.२
इत्युक्त्वा गाढमालिङ्ग्य, वधूं वीरमती ततः । स्नेहं प्रदर्शयामास, स्वाशीर्वचनविस्तरैः ।। २९२ ।। ततः सा विजनीकृत्य, वधूमूचे कृतादरा । 'हे वत्से ! यदहं वच्मि, तच्छृणु त्वं समाहिता ।। २९३ ।। त्वं राजपुत्री राजा ते भर्ता यदि कदाचन । गर्वेत् तदा न ते जन्मा - मोघं स्यादिति मन्यते' ।। २९४ ।
इति तस्या वचः श्रुत्वा, जगादाऽसौ गुणावली । 'मातः ! कथं वदस्येवं, का मत्तो भाग्यशालिनी ।। २९५ ।
चन्द्रश्चन्द्रसमः स्वामी, सर्वसौख्यं ददाति मे । अनुकूलाः परिजनाः, कथं निन्दसि मां ततः ?' ।। २९६ ।। 'तन्निशम्याऽवदच्छ्वश्रू - स्त्वं न भावमवैषि मे भावावबोधचतुरा,
।
भवन्ति विरला यतः ।। २९७ ।।
१. 'निर्गतः' इति पाठा० ।। २. 'सरले ! त्वं न जानीषे, छलं किमपि लौकिकम्' इति पाठा० ।। ३. 'प्रयत्नतः' इति पाठा० ।। ४. ' भर्तेत्येव' इति पाठा० ।। ५. 'तन्निशम्याऽवदत् सुभ्रु ! सा' इति पाठा० ।।