________________
चन्द्रराजचरित्रम् काचित् कण्ठे हारलतां, न्यस्यति स्म निजा सखी । इत्थं संसेव्यमाना सा, दासीभिः सुखमन्वभूत् ॥२७९ ।। अथ वीरमती तत्र, गोष्ठी कर्तुं समागमत् । गुणावल्या समं स्वीयं, रूपं कृत्वा मनोहरम् ।।२८० ॥ आयान्तीं तां समालोक्य, तत्सखी सहसाऽवदत् । गुणावली मयि शुभे !, श्वÜ सत्कुरु साम्प्रतम् ।।२८१ ॥ इयं श्वश्रूः समायाता, माननीया धवस्य ते । अस्या नमन-सत्कारा-वुचितौ तव भाविनि !' ॥२८२ ॥ इति सख्या वचः श्रुत्वा, हसन्ती सहसैव सा । श्वश्रूचरणपाथोजे, प्रणनाम सुभक्तितः ।।२८३ ।। 'कृतार्थाऽस्मि सुपुण्योऽयं, दिवसः समुपागतः । तव प्रसादादद्याऽहं, शचीतोऽपि गरीयसी ।।२८४ ।। ममाऽजिरे कल्पलता, प्रकटाऽभून्न संशयः । तवाऽऽगमेन हे श्वश्रु !, जानेऽहमिति साम्प्रतम्' ।।२८५ ।। इति तद्वचनं श्रुत्वा, हृष्टा वीरमती जगौ । 'कुलीनाऽसि सुशीलाऽसि, गुणवत्यसि सुन्दरि ! ।।२८६ ।। अतस्ते वचनं चारु, नाऽत्र चित्रं मनागपि' । सुधास्रावश्चन्द्रिकातः, स्वभावादुपजायते ॥२८७ ।।
१. 'आज्ञेव कामदेवस्य, नृपते राजतेतराम् ।।' इति पाठा० ।।, इतोऽग्रे'मध्याह्ने धुमणिः स्वीयं, रथं संरुध्य वेगतः । यत्सौन्दर्यं दिक्षुः संस्तस्थौ रागवशंवदः' ।। इति निष्कासितः श्लोको दृश्यते ।। २. 'चित्रमत्र विभाति किम् ?' इति पाठा० ।।