________________
२९
सर्गः - १ चन्द्रप्रतापे तपति, नातपन्नाश्रिताः प्रजाः । दृष्ट्वैतव्यतिरेकं किं, रविर्दिवमशिश्रियत् ? ॥२७० ।। चन्द्रराजस्य सदसि, विदुषां शतपञ्चकम् । नैत्यद्याऽपि गुरुर्मन्ये, दृष्ट्वा भीतो गतो दिवम् ॥२७१ ॥ अनेकमतसिद्धान्त-चुञ्चवः स्वस्वसम्मतम् । तिष्ठापयिषवस्तत्र, वादमाश्रित्य रेजिरे३ ।।२७२ ।। कवयः सरसं काव्यं, समस्यापूर्तिमेव च । कृत्वा राज्ञे स्वकौशल्यं, दर्शयामासुरादरात् ॥२७३ ॥ खगोलमथ भूगोलं, फलश्रुत्यादिकं५ तथा । चतुराः प्रकटीचक्रु-गणकास्तस्य सन्निधौ ।। २७४ ॥ सूर्याचन्द्रमसौ चित्रं, सभां चित्रां महीपतेः । दिदृस् इव तद्भित्ता-वालेख्यत्वमुपेयतुः ।।२७५ ।। यथा नक्षत्रसङ्घाते, चन्द्रमाः शोभतेतराम् । तथा सर्वजनौघेऽसौ, चन्द्रराजो व्यराजत ।। २७६ ।। अथैकदा भोजनादि-कर्म कृत्वा गुणावली । प्रासादे निषसादाऽसौ, निजदासीजनैर्वृता ।।२७७ ।। काचिदवीजयत् काचित्, ताम्बूलं व्यतरत् तथा । काचित् सुधासमं स्वच्छं, भृङ्गारेऽम्बु समार्पयत् ॥२७८ ॥ १. 'चन्द्रे यदा (चन्द्रभूपे -पाठा०) धृतच्छत्रा-स्तदङ्गरक्षका अमी । तदा तप्ता अप्यसुख्यन्, प्रपन्नः को न सुख्यति ।। इति पाठा० ।।' २. 'चन्द्रराजस्य सद सि, पञ्चाशत् (धीमतां) पण्डितोद्धराः । बृहस्पतिसमं शास्त्रै, राजानमन्वरञ्जयत्।।' इति पाठा० ।। ३. 'तिष्ठापयिषवः सर्वे, व्यवदन्त परस्परम्' इति पाठा० ।। ४. [भूपं]' इति पाठा० ।। ५. 'ग्रहस्थित्यादिकं' इति पाठा० ।। ६. 'व्योम्नि' इति पाठा० ।। ७. 'यस्य' इति पाठा० ।। ८. 'दिदृक्ष इव सोत्कण्ठं, क्षणं तस्थतुरद्भुताम्' इति पाठा० ।।