________________
सर्गः
-
१
२७
अन्यथा विषवल्ली स्या- महमेतत् सदा हृदि । ध्यातव्यं नहि कर्तव्यं, मन्नियोगं विना त्वया ।। २५१ ।।
सुखं कामयसे चेत् त्वं, मच्छिद्रं न विलोकयेः' । इति शिक्षां ददौ राज्ञे, मन्त्राराधनगर्विता ।। २५२ ।। चन्द्रोऽञ्जलिं विधायाऽथ, कथयामास मे शिरः । गच्छेत् तथापि ते वाक्यं, नाऽन्यथा कर्तुमुत्सहे ।। २५३ ।। त्वं माता जनको राजा, प्रभुर्मम न संशयः । सर्वं तव, न कोऽप्यस्मि, राज्यस्याऽस्य महाशये !' ।। २५४ ॥ इति तस्य वचः श्रुत्वा प्रमदा प्रमदान्विता । चुचुम्ब तन्मुखं 'प्राण - समस्त्वमिति साऽवदत् ।। २५५ ।। 'गुणावल्या समं पुत्र !, सुखं भुङ्क्ष्व न ते भयम् । कर्तव्यं, तव कल्याण-मि' त्युक्त्वा भवनं गता ।। २५६ ।। गुणावली गुणैर्गङ्गा - समा राजाऽपि हंसराट् । उभौ कामकलामन्व-भूतां पद्मलतामिव ।। २५७ ।। तौ राजदम्पती जिष्णु - दम्पती इव सर्वदा । विलासं चक्रतुः पूर्व- पुण्ययोगादनुत्तमम् ।। २५८ ।। क्षीरपानीयवत्प्रेमा, तयोरासीद् दुरत्ययः । मणिहेम्नोरिव तथा, योगो जगति निर्मलः ।। २५९ ।। राजा वीरमतीं शश्वन्मानयामास भक्तितः I गुणावल्यपि तं नित्यं प्रणनाम पराऽऽदरात् ।। २६० ।।
बालोऽपि चन्द्रभूपालः, शुशुभे कामदेववत् । उदयाद्रौ दिवानाथ, इव सिंहासने बभौ ।। २६१ ।।