________________
२६
चन्द्रराजचरित्रम् तदा चन्द्रावतीदेवी, विनयेन महीपतिम् । ऊचे 'स्वामिनहमपि, त्वया लास्यामि संयमम्' ।।२४१ ।। इत्युक्त्वा तनयं चन्द्रं, शिक्षयित्वा पुनः पुनः । वीरमत्यै समाऽऽशु, चचाल नृपतेः पुरः ॥२४२ ।। राजाऽपि तनयं वीर-मत्याः क्रोडे निधाय च । राज्यं तस्मै ददौ सार्द्ध, तया दीक्षामुपाददे ॥२४३ ।। अथ कालेन तौ सम्यक्, पालयित्वा व्रतं चिरम् । शासने सुव्रतेशस्य, निर्वाणपदमीयतुः ॥२४४ ।। गुणावलीसहचरो, वीरमत्या मते स्थितः । चन्द्रश्चन्द्र इव. स्वच्छी-चकार स्वनयैर्जगत् ।।२४५ ।। अथैकदा वीरमती, चन्द्रं रहसि प्रागदत् । 'हे पुत्र ! न त्वया चिन्ता, कर्तव्या मम संस्थितौ ।।२४६ ।। इच्छेयं यद्यहं तर्हि, पुरुहूतस्य चासनम् । चालयेयं तथा सौरा-नश्वान् स्तम्भयितुं क्षमा ।।२४७ ।। अलकाधिपतेः सम्प-दानयेयं विना श्रमम् । यदि वा मेरुमानीय, स्थापयेयं पुरस्तव ।।२४८ ।। देवकन्याकरग्राहं, कारयेयं त्वयाऽऽत्मज ! । सर्वं कर्तुं शक्तिरस्ति, मम मिथ्या न वच्म्यहम् ॥२४९ ॥ राज्यगर्वाद् युवत्वाद् वा, नाऽवज्ञातुं त्वमर्हसि । प्रसन्ना यद्यहं तर्हि, कल्पवल्ली प्रियाङ्गज ! ।।२५० ।। १. 'राज्यभारं ददौ तस्मै, स्वयं' इति पाठा० ।। २. 'निर्वाणपदमाप्सातां, मुनिसुव्रतशासने' इति पाठा० ।। ३. 'तवाऽन्तिके' इति पाठा० ।।