________________
सर्गः
१
जरेयं रजकीव द्राक्, श्यामं श्वेतं करोति हि । यद् दृष्ट्वा विषयाः सर्वे पलायन्ते ततो भयात् ।। २३१ ।। आज्ञाऽखण्डा जरादेव्या, वर्ततेऽत्र कलेवरे । दन्तानुत्पाट्य या पूर्वं दण्डं दत्ते हि देहिनाम् ।। २३२ ।। शुक्लतेयं शिरसि या, सेयं खड्गलता किल । कामदेवस्य सुभटान्, नाशयत्यञ्जसा
ननु
।। २३३ ।।
२५
!
।
।। २३४ ।।
इयं यदि जरा बाह्यं, प्रकाशयति मे तदा आभ्यन्तरप्रकाशं त्वं, कुरुषे न कथं मनः राज्यं सदैव दुःखाय, नरकाय विशेषतः तस्मिन् मोहमुपागम्य, कथं रज्यसि सर्वदा ? ।। २३५ ।।
I
अरे चेतो न ते राज्यं, परलोके हितं भवेत् । केवलं भगवत्सेवा - माचराऽतो विमोक्ष्यसे ।। २३६ । कृत्वाऽनल्पं सुसङ्कल्प- मित्येवं शुभकर्मोदयाच्चाऽथ, निर्विण्णो व्यक्तमूचिवान् ।। २३७ ।।
सुसङ्कल्प-मित्येवं नृपतिर्हृदि ।
अतः सर्वं परित्यज्य, संयमी स्यामहं शुभे ! । मद्वंश्यानां क्रमोऽयं यद्, वयःस्थः संयमी भवेत् ।। २३८ ।। चन्द्रावती तदाकर्ण्य, सरागैर्वचनैर्बहु । लोभयामास नो राजा, निश्चयाच्चलितोऽभवत् ।। २३९ ॥ 'द्वाभ्यामपि पुनः स्वान्ता ऽऽवर्जकैर्वचनैर्नृपः । बोध्यमानोऽपि नाऽमुह्यन्मोहो नीरागिणः कुतः ।। २४० ।।
"
१. 'यं' ति पाठा० ।। २. - फलाय भविता ध्रुवम्' इति पाठा० || ३. 'प्रिये' इति पाठा० ।। ४. 'लुलुभे तन्निशम्य च' इति पाठा० 11 ५. ‘विरमतीचन्द्रावतीभ्याम् ' इति टि० ।। ६. 'देवीभ्यां रागभरितैर्वचोभिर्विविधैर्नृपः' इति पाठा० ।।