________________
२४
चन्द्रराजचरित्रम् अथैकदा वीरसेन-श्चन्द्रावत्या स्वकुन्तलम् । सुगन्धितैलसंसिक्तं, विजनेऽकारयन्नृपः ।।२२२ ।। चन्द्रावत्या प्रेमपूर्व, केशवेशे कृते सति' । वृद्धतासूचकः श्वेतो, वाल एको व्यलोक्यतः ॥२२३ ।। दृष्ट्वा सा न्यगदत् कान्तं, "प्रिय ! दूतोऽयमागतः । एकाकी न च त्वद्भीति-मगादत्र समागमे ।।२२४ ।। भवता रिपवो राजन् !, वारिता बलवत्तराः । चित्रं परन्तु दूतोऽयं, वारितो नहि क्षुद्रकः' ॥२२५ ।। तन्निशम्याऽऽह राजा 'को-ऽन्तःपुरे समुपागतः । दर्शय त्वं प्रिये ! तस्य, दण्डं कुर्यामतन्द्रितः' ॥२२६ ।। इतस्ततो विचिन्वानं, राजानं वीक्ष्य साऽवदत् । 'स्वस्थो भव कथं दूतो, मनुष्योऽत्र समाविशेत् ? ।। २२७ ।। परन्त्वयं वृद्धताया, दूतः पलितकुन्तलः । समागात्, कोऽन्यथाऽऽज्ञां ते, विनाऽऽयातुमिहेश्वरः ।। २२८ ॥ तच्छ्रुत्वा नृपतेः क्रोधः, सपद्येव न्यवर्तत । चिन्तितं हा कथं रम्ये, देहे सेयं जराऽऽगता ॥२२९ ।। शम्भुना दहता कामं, कथं नेयं पिशाचिनी । अदह्यत जरा येन, शोको न स्याच्छरीरिणाम् ।।२३० ॥ १. 'केशवेशो व्यधीयत ' इति पाठा० ।। २. 'यमदूत इव स्वच्छो, वालमेको व्यलोक्यत' इति पाठा० ।। ३. 'तेऽभीति, जग्राहाऽत्र' ति पाठा० ।। ४. 'त्वया' इति पाठा० ।। ५. '-ऽपि' इति पाठा० ।। ६. 'व्याकुलोऽसि' इति पाठा० ।। ७. 'परिहर्तुमिहेश्वरः' इति पाठा० ।। ८. 'पिशाचिका' इति पाठा० ।।