________________
२३
सर्गः १
सिद्धे मन्त्रे ततस्तस्याः, सर्वाधिर्विन्यवर्तत । मन्त्रप्रसादतो लोके, किमसाध्यं प्रजायते ? ।। २१३ ।।
लोकातिगमुपेत्य सा ।
विद्याप्रसादतो देवी, प्रभावं निर्भया जाता, स्वैरचर्या परायणा' ।। २१४ ।।
पत्यादिकं सर्वजनं, वशीकृत्य च साऽञ्जसा । विख्याताऽभून्न किं कुर्या -ज्जनो मन्त्रप्रभावतः ।। २१५ ।।
इतश्चन्द्रकुमाराय सर्वा विद्या अशिक्षयत् ।
पिता नाऽवसरे धीमान्, स्वकर्तव्येऽवसीदति ।। २१६ ।। तस्मिन् पूर्वमुपात्तेव, सर्वविद्या न्यविक्षत । भविनां न हि कृत्येषु प्रयासः प्रायशोऽफलः ।। २१७ ।। गुणशेखर भूपस्य, कन्या नाम्ना गुणावली । समहं स्वतनूजेन", पर्यणाय्यत भूभुजा ।। २१८ ।। चन्द्रो गुणोज्ज्वलः शश्वत् तया सह नवं नवम् । सुखं वैषयिकं स्वैर-मन्वभूत् स्वस्थचेतसा ।। २१९ ।। अनेकभावभङ्गीभि-स्तस्य चित्तमहर्निशम् । आराधयामास गुणैर्नवैरेषा गुणावली ।। २२० ।। वीरमत्या अपि बहुः, स्नेहश्चन्द्रे व्यवर्धत । न कस्य जायते प्रीति-र्जने गुणगणाऽन्विते ।। २२१ ।।
9
१. 'विद्या प्रसादतो देवी, सपक्षा सर्पिणीव सा । निर्भया मदमत्ता च, सिंहीव भुवनेऽजनि ।। इति पाठा० ।। २. 'वशीकृत्य वराङ्गना' इति पाठा० ।। ३. '-न्नारी' इति पाठा० ।। ४. 'निविष्टा' इति टि० ।। ५. 'असौ निजतनूजेन' इति पाठा० ।। ६. ‘चन्द्रश्चन्द्र इव प्रीत-' इति पाठा० ।। ७. 'आभूषणेन वेषेण, सुखमन्वभवत् सुधीः' इति पाठा० ।। ८. 'चन्द्रे चिरतरोद्गते' इति पाठा० ।।