SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ २० चन्द्रराजचरित्रम् चन्द्रप्रकाशविमली-कृतं गहनमुत्तमम् । अतिक्रम्य ददर्शाऽग्रे, मन्दिरं स्वर्णभासुरम् ॥१८३ ।। पतितो भागण: श्रान्तो, रात्रौ तन्मन्दिरोपरि । विश्राम्यन्निव बभ्राजे, मणिखण्डचयः शुभः ॥१८४ ।। पवनान्दोलितास्तत्र, केतवो दूरतो जनान् । आह्वयन्त इवाऽराजन्, दृष्ट्वा तद्धर्षमाप सा ॥१८५ ।। आदीश्वरं भक्तिनम्रा, प्रणनाम पुनः पुनः । स्वदोषं क्षमयित्वा सा, क्वचित् कोणे स्थिताऽभवत् ।। १८६।। ततो देवाङ्गनास्तत्र, समागत्य प्रणम्य च । विशिष्टभक्तिभावेन, पोपूज्यन्ते स्म सत्प्रभुम् ।।१८७ ।। पश्चाद् रसज्ञास्ताः सर्वा, भावपूजां विधाय च । द्वात्रिंशनृत्यसंयुक्तं, सङ्गीतं कर्तुमुद्यताः ॥१८८ ।। सारीगमपधन्यात्म-स्वरान् सप्तलयानुगान् । वीणायां वादयन्ति स्म, ग्राममूर्च्छनकोविदाः ।।१८९ ।। तां धिक् तां धिङ्मृदङ्गांश्चा-ऽवादयन्त रसप्लुताः । रागसागरसम्मन-हृदया भावभासुराः ॥१९० ॥ इत्थं नृत्यादि कृत्वाऽथ', श्रान्ता अप्सरसस्ततः । स्वं स्वं वस्त्रं स्थले न्यस्य, सरसि स्नातुमाविशन् ॥१९१ ॥ ता हास्यरसनिष्णाता, जलक्रीडां सखीजनैः । चक्रुस्तदन्तरं लब्ध्वा, राज्ञी तत्र ययौ द्रुतम् ।।१९२ ।। १. 'भास्करः' इति पाठा० ।। २. 'इत्थं नृत्यं विधायाऽथ ' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy