________________
सर्गः - १ शुकस्य वचनं स्मृत्वा, मुख्याया नीलमंशुकम् । हृत्वा मन्दिरमागत्य, द्वारं बध्वा स्थिताऽभवत् ॥१९३ ॥ स्नात्वा ताः समुपागम्य, स्वं स्वं वस्त्रं दधुः स्त्रियः । मुख्या स्ववस्त्रं नाऽऽलोक्ये-तस्ततोऽमार्गयत् ततः ॥१९४ ॥ 'भगिन्यो ! दत्त मे वस्त्रं, कृतं' हास्येन साम्प्रतम् । नग्नाऽस्मि प्राञ्जलिं कृत्वा, प्रार्थयामि पुनः पुनः' ।।१९५ ॥ ता अब्रुवन्न चाऽस्माभि-ऽदृष्टं तव वरांशुकम् । वयं त्वद्वसनं नीत्वा, हसिष्यामः कथं सखि ! ? ॥१९६ ॥ हे स्वामिनि ! प्रसादं ते, सततं कामयामहे । कथङ्कारं परीहासं, कुर्याम किन्तु श्रूयताम् ॥१९७ ।। अस्माभिर्मन्दिरद्वार-मुद्धाटितमितः कथम् ? । पिनद्धं दृश्यते तस्मात्, तत्रैवांऽशुकहारकः' ।।१९८ ।। सर्वा मिलित्वा तत्राऽगु-रूचुश्च विनयान्वितम् । 'द्वारमुद्धाटय त्वं को ?, मन्यस्व वचनं मम ।।१९९ ।। रात्रिः प्रभातकल्पाऽतो, गन्तव्यं दूरमद्य नः । देहि वस्त्रं न ते कार्यं, तेन तदैवतं यतः ।।२०० ॥ ददासि यदि मे वस्त्रं, मन्नृत्येन प्रसद्य च । प्रसादीकृतमित्येव, ज्ञास्यामो वयमत्र तत् ।।२०१ ।। अथवा वस्त्रहरणं, कृतं कामेन केनचित् । दास्यामि सत्यं तेऽभीष्टं, बुद्ध्यस्वैतन्न चाऽन्यथा' ।।२०२ ।।
१. 'अलम्' इति टि० ।। २. 'वचनं मम मन्यताम्' इति पाठा० ।। ३. 'हि' इति पाठा० ।। ४. यदि ते स्वार्थसाधकम्' इति पाठा० ।।५.'-मन्यथा न वदाम्यहम्' इति पाठा०।।