________________
सर्गः - १
शुकोऽवदद् ‘देवि ! चिन्तां, त्यज श्रेयो भविष्यति' । . तवाऽग्रेऽहं वदिष्यामि, सदुपायं पतिव्रते ! ॥१७३ ॥ त्वं धर्मजननी मे स्या, हृदि शान्तिं समाश्रय । अवश्यमुपकाराय, प्रयते तव साम्प्रतम्' ॥१७४ ।। देव्युवाच 'न मेऽपत्य-मतो दुःखाकरं मम । सर्वं विभाति राज्यादि, पीड्यमाना ततोऽस्म्यहम् ॥१७५ ।। तन्निशम्य जगादाऽसौ, 'शृणु राज्ञि ! वचो हितम् । अस्मिन् वनेऽस्ति कौबेर्यां, चैत्यमादिजिनेशितुः ।।१७६ ।। चैत्रस्य पूर्णिमायां च, रात्रावत्र सुराङ्गनाः । समागत्य प्रनृत्यन्ति, देवदेवस्य तुष्टये ।।१७७ ।। तासां नीलाम्बरा मुख्या, देव्यस्ति गुणराजिता । तस्या वस्त्रं यदि हरेस्तदा कार्यं भविष्यति ॥१७८ ।। एकाकिन्या त्वया तत्र, गन्तव्यं कार्यसिद्धये । विस्मर्तव्यं न मातस्त-दित्युक्त्वा स ययौ खगः ॥१७९ ।। राज्ञी तस्मिन् गते शोक-मादधाना गृहं प्रति । चचाल भर्ना सहिता, सन्ध्याकाले वराङ्गना ॥१८० ।। क्रमेण चैत्रमासस्य, पूर्णिमासमुपागमे । देवी शुकवचः स्मृत्वा, गमनायोपचक्रमे ॥१८१ ॥ स्वसख्यै निजनेपथ्यं, दत्त्वा तस्याः प्रगृह्य च । एकाकिनी ययौ स्त्रीणा-मस्ति किं दुष्करं क्षितौ ? ।।१८२ ।।
१. 'सर्वं विधास्यति' इति पाठा० ।। २: 'ईश्वरस्तं' इति पाठा० ।।