________________
१८
चन्द्रराजचरित्रम् आकाऽऽह शुको मां हि, धृत्वा विद्याधरोऽन्यदा । सौवर्णे पञ्जरे न्यस्य, पाठयित्वा बुधं व्यधात् ॥१६४ ।। एकदा पञ्जरस्थं मां, नीत्वा साधुं नमस्यितुम् । जगाम विनयाऽऽविष्टो, नत्वा तं समुपाविशत् ।।१६५ ।। मुनिदर्शनतः पापं, ननाश मम तत्क्षणम्' । धर्मानुपदिदेशाऽसौ, बहुशस्तत्र योगिराट् ।।१६६ ।। मां पञ्जरस्थमालोक्य, विद्याधरमुवाच सः । पक्षिणां बन्धने भद्र !, बहु पापं प्रजायते ।।१६७ ।। इत्युक्त्वा मोचयामास, मां ततोऽहमनेकशः । भ्राम्यन् वनान्युपवना-न्यागतस्तव सन्निधौ ।।१६८ ।। इत्यहं निजवृत्तान्त-मवोचं वरवर्णिनि ! । तवाऽपि यदि वक्तव्यं, भवेत् तर्हि वदाऽधुना' ।।१६९ ।। निशम्य तद् वीरमती, शुकं मत्वाऽतिपण्डितम् । ऊचे निजमनोदुःख-मनपत्यत्वहेतुकम् ।।१७० ।। 'मणिमन्त्रौषधीनां त्वं, ज्ञाताऽसि शुक ! सुव्रत ! । दुःखहेतुसमुच्छेदे, सहायो भव सर्वथा ॥१७१ ।। उपकारं भृशं मन्ये, कार्ये सति विहङ्गम ! । ऋजुबुद्ध्या तवाऽग्रेऽहं, स्वहृदिस्थं न्यवीविदम्' ।।१७२ ।। १. 'पञ्जरे स्थापयामास, हैमे प्राणसमं (बुधवरं) व्यधात्' इति पाठा० ।। २. 'तत्क्षणे' इति पाठा० ।। ३. '-ऽऽगच्छंस्तवाऽन्तिके' इति पाठा० ।। ४. 'तथापि' इति पाठा० ।। ५. '-निबन्धनम्' इति पाठा० ।। ६. 'तन्मदीयेऽत्र कार्ये त्वं' इति पाठा० ।। ७. इतोऽग्रे- 'त्वं मम प्राणसदृशो, मन्ये त्वां भ्रातरं निजम् । भवते नवलक्षं तद्धारं दास्ये कृतार्थिता(-नी) ।।' इति निष्कासितः श्लोको दृश्यते ।।