________________
सर्गः १
-
१७
>
तमुवाच 'शुक ! त्वं मां कथं पृच्छसि हृद्गतम् ? । तिर्यग्जातिः फलाशी च, वनवासी खगोऽसि हि ।। १५४ ॥
।
यदि त्वत्तो भवेद्दुःख - स्यान्तस्तर्हि वदाम्यहम् । अन्यथा न हि स्वान्तस्थं, प्रकाशयति बुद्धिमान् ' ।। १५५ ।। तन्निशम्य जगादाऽसौ शुकः किञ्चित् समन्युकः । 'पक्षिणा क्रियते यत्तन्मानवेन न शक्यते' ।। १५६ ॥ 'सर्वेभ्यो हि नरः श्रेष्ठः, कथं वदसि रे शुक ! तैर्न यत्क्रियते कर्म कुर्यात् तद्विहगः कथम् ' ?' ।। १५७ ।। इत्थं देव्या वचः श्रुत्वा, विदुषां शेखरः शुकः । जगाद 'भुवि कोऽन्योऽस्ति, पक्षिणा सदृशः शुभे ! ।। १५८ ।। त्रिखण्डाधिपतेर्विष्णोर्भूरिं विक्रमशालिनः गरुडो वाहनं पक्षी, वाण्या हंसोऽस्ति वाहनम् ।। १५९ ।। नीरक्षीरविवेके हि, हंस एव विचक्षणः । तरुणीगमनेऽप्येष
I
उपमानतयाऽऽहृतः ।। १६० ।।
दमयन्त्या समायोगे, नलस्य पृथिवीभुजः । उपकारमकार्षीत् स, हंस एव विहङ्गमः' ।। १६१ ।। निशम्येति वचस्तस्य, देव्युवाचाऽतिहर्षिता । 'अहो विद्वन् ! दयालुस्त्वं, पक्षिराज ! महाशय ! ।। १६२ ।। अथाऽऽगमनमेतस्मिन् समये कुत एव ते ? | सर्वं कथय भो पक्षिन् !, मम प्राणसमो ह्यसि ।। १६३ ।।
१. 'जिज्ञाससे द्रुतम् ?' इति पाठा० ॥। २. 'तत् करोति खगः कथम् ?' इति पाठा० ।। ३. ' - र्जिष्णोर्वि-' इति पाठा० 11