________________
१६
चन्द्रराजचरित्रम् नास्ति यस्य सुतस्तस्य, किं राज्यसुखसम्पदा ? । न तद्गृहं समायान्ति, साधवोऽतिथयस्तथा ॥१४४ ।। किं मया पूर्वजनुषि, कृतं कर्म मलीमसम् ? । येन मे 'शोभनाकारो, नैकोऽपि तनयोऽभवत्" ॥१४५ ।। एवं विचिन्तयन्ती सा-ऽङ्गष्ठाग्रेण महीतलम् । लिलेख बाष्पनयना-ऽनाकर्णितसखीस्वना ॥१४६ ।। इतः सखीजनस्ताञ्च', पप्रच्छ प्रेमपूर्वकम् । कथं त्वं विमनीभूय, रोदिषीहाऽतिविह्वला ॥१४७ ।। विप्रियं तव कृत्वा को, जिजीविषति मूढधीः । कोऽग्नेः शिखां स्वहस्तेन, जिघृक्षति मुमूर्षुकः ॥१४८ ॥ अयं खेलति ते भर्ता, कामदेवसमाकृतिः । अयं चन्द्रकुमारश्च, किं ते शोकस्य कारणम् ? ॥१४९ ।। एवमुक्ताऽपि नो देवी, स्वाधिहे तुमवोचत । इतः कोऽपि शुकस्तत्र, सहकारे समाययौ ।।१५० ।। तथाविधां विलोक्याऽसौ, देवीं कारुण्यमागतः । मानुषीं गिरमाश्रित्य, संबभाषे शुको वरः ।।१५१ ।। 'हे सुन्दरि ! किमर्थं त्वं, रङ्गभङ्गं चिकीर्षसि ? । किं ते दुःखं ? कुतश्चिन्ता?, तन्मे कथय निश्चितम् ॥१५२ ॥ तच्छ्रुत्वा विस्मयाविष्टा, राज्ञी यावद् व्यलोकत। तावद् रसिकवक्तारं, शुकमालोकयद् द्रुमे ।।१५३ ।। १. 'केसरा-' इति पाठा० ।। २. '-स्तस्यै' इति पाठा० ।। ३. 'रोदिषि स्वामिजीविते ?' इति पाठा० ।।