________________
सर्गः १
-
१५
तौ
दम्पती बहुविधै- रब्जैश्चिक्रीडतुर्वने ।
अन्या अपि कुरङ्गाक्ष्य- स्तत्रागूरन्तुमिच्छवः ।। १३४।। काऽपि बाला निजं बालं, क्रोडे कृत्वाऽतिसुन्दरम् । छायां चम्पकवृक्षस्या- ssश्रित्य तस्थौ मुदान्विता ।। १३५ ।। काऽप्याम्रवृक्षे हिण्डोलं', रचयित्वा स्वबालकम् । क्रीडयन्ती काऽपि हस्ते, धृत्वा पोतममोदत ।। १३६ ।। काचित् करमथाऽऽलम्ब्य गमनं शिक्षयत्यपि । काचित् पुत्रं ददौ स्तन्यं, पाययामास काऽपि च ।। १३७ ।। इति दृष्ट्वा विनोदं सा, राज्ञी वीरमती भृशम् । दीर्घश्वासं विनिःश्वस्य, क्रीडां त्यक्त्वा स्म शोचति ।। १३८ ॥ दैवं निनिन्द " हे दैव !, कथं मे तनयं नहि । अदा नहि विना पुत्रं, शोभते प्रमदाजनः ।। १३९ ।। यथा दीपं विना चैत्यं, देहो जीवं विना यथा । पुष्पं गन्धं विना मेघो, यथा वारि विनाऽफलम् ।। १४० ।।
दयां विना यथा धर्मो, मानहीनं यथाऽर्पणम् । स्वरं विना यथा गानं, व्यञ्जनं लवणं विना ।। १४१ ॥
तथा पुत्रं विना सर्वं, न मे राज्यादिकं सुखम् । शोभते हा कथं वन्ध्यां, चकार विधिरत्र माम् ।। १४२ ।। योत्सङ्गे तनयं कृत्वा, न क्रीडयति कामिनी । तस्याः शरीरग्रहणं, निष्प्रयोजनमेव हि ।। १४३ ।।
१. ' - रङ्गै' इति पाठा० ।। २. 'मदा - इति पाठा० ।। ३. 'हिन्दोलं' इति पाठा० ।। ४. 'समाधाय' इति पाठा० ।। ५. 'भोजनं' इति पाठा० ।।