________________
१४
चन्द्रराजचरित्रम् वासन्तो मुग्धमधुपः, कामिनां श्रवणे किल । उच्चचार महामन्त्रं, 'शम्बरारेरिवाऽऽनिशम् ।।१२४ ।। कामदेवोऽपि सहसा, कामिनां हृदयौकसि । उवास पञ्चविशिखीं, प्रयुञ्जन् समदस्ततः ।।१२५ ।। प्रससार सहायत्वात्, सर्वतो दक्षिणानिलः । कामिनां रतिजं खेदं, हरन् सुरभिमन्दगः ।।१२६ ।। चम्पकोद्दालकाशोक-कुन्दकुड्मलसन्ततिः नवपालाशपालाशः, कामिनां मुदमादधौ ।।१२७ ।। व्रततिर्वरमाकन्द-मालिलिङ्गानुरागिणम् । प्रौढेव कामिनी कान्तं, सरसं सरसा यथा ।।१२८ ।। इतो राजा तदा खेलां, कर्तुमाराममाययौ । यत्र वृक्षा वसन्ताय, फलपुष्पाण्युपाहरन् ।।१२९ ।। कलिकाश्चम्पकस्यैता, वसन्ताय महीभृते । ददाति विपिनं तस्मै, प्रदीपाणां शिखाः किमु ॥१३० ॥ पद्मवाससमायुक्ते, सलिले वनितायुतः । चिक्रीड मनुजाधीशः, कामदेववशंवदः ।।१३१ ।। काश्मीराक्तजलैः स्त्रीणां, सङ्घमस्नापयन्नृपः । मध्याह्नेऽपि यथा सन्ध्या-रागः समभिजातवान् ॥१३२ ।। तत्र चन्द्रकुमारोऽपि, सवयोभिः स्म खेलति । एनं दृष्ट्वाऽथ नृपति-श्चन्द्रावत्यप्यमोदत ॥१३३ ।। १. 'कामस्य' इति टि० ।। २. -रिवाऽऽबभौ' इति टि० ।। ३. 'विधुन्वन्' इति पाठा० ।। ४. 'ददते विटपाः सर्वे, प्रदीपस्य शिखा इव' इति पाठा० ।। ५. 'समभिजायते' इति पाठा० ।। ६. 'चन्द्र' इति पाठा० ।।