________________
१०
चन्द्रराजचरित्रम् ममाऽपि तत् कर्णपथं, प्राप सम्यक् शुभाक्षरम् । रोमहर्षच्छलान्मोदो, हृदयाद् बहिरागमत् ।। ८३ ॥ तच्छ्रुत्वैव दिवारात्रि, तव ध्यानपरायणा ।। व्यतिक्राम्याम्यहोरात्रं, त्वत्सङ्गममनोरथा ॥ ८४ ।। एकदा स्ववयस्याभिः, सार्द्ध निर्झरिणीतटम् । जलक्रीडार्थमगमं, तत्र 'जातकुतूहला ।। ८५ ।। इतोऽयं तापसस्तासां, नेत्रबन्धं विधाय च । इन्द्रजालेन मां नीचो, हृतवांस्तत एव सः ।। ८६ ॥ अत्राऽऽनीय समिद्धेऽग्नौ, यावद्धोतुं प्रचक्रमे । तावत् त्वया महाराज !, रक्षिता रुदती द्रुतम् ॥ ८७ ।। अन्तर्यामिन् ! प्रतप्तानां, शरण ! प्रगुणान्वित ! । प्रभावं तव किं वच्मि, स्मरणात् तापनाशकम् ॥ ८८ ॥ निजं कलत्रमत्रास्था, इत्यहं तव किं यशः । गायाम्यथाऽपि स्वां वाणी, पुनामि तव कीर्तनात् ।। ८९ ॥ आचारादेव जाने त्वां, ममाऽसि प्राणवल्लभः । अन्यथा कः पतिं त्यक्त्वे-दानी पालयिता मम' ।। ९० ।। पश्चाद् राजाऽपि तच्छ्रुत्वा, भृशं सम्मान्य तां निजाम्। पत्नी ज्ञात्वा पुरस्कृत्य, गन्तुं समुपचक्रमे ॥ ९१ ।। तस्मात् सोपानतः शीघ्रं, वापी गत्वा महीपतिः । जलं स्पृष्ट्वा सदारः स, बहिरागाद् मुदाऽन्वितः ॥ ९२ ॥
१. 'बद्ध-' इति पाठा० ।। २. 'दृष्टाऽहं' इति पाठा० ।। ३. 'तथा' इति पाठा०॥