________________
सर्गः - १ बभाण चतुरा लज्जा-नम्रा भूपतिमित्यसौ । 'आभानगर्या रम्यायाः, पञ्चविंशतियोजने ॥ ७३ ।। अस्ति पद्मपुरीनाम्नी, नगरी सर्वसम्पदा । या वैकुण्ठमपि प्रोच्चै-रुपाहसति सेन्दिरम् ।। ७४ ।। श्रीपद्मशेखरस्तत्र, राजा राजसमद्युतिः ।। यः स्वोच्चैर्गुणसम्पद्भिः, सर्वशेखरतां ययौ ॥ ७५ ॥ रम्भेव वर्यसौन्दर्ये, सौभाग्ये श्रीरिव प्रभो ! ।। शारदेव मतौ तस्य, शारदा प्रमदाऽभवत् ॥ ७६ ॥ तयोश्चन्द्रावती नाम्ना, तनयां विद्धि मां विभो ! । याऽहं धर्मपरा नित्यं, बालत्वं व्यतिजग्मुषी ।। ७७ ॥ मयि श्रीकामदेवस्या-ऽधिकार इव सर्वतः । यौवनं प्रकटीभूतं, सर्वावयवसुन्दरम् ॥ ७८ ॥ यौवनस्थां व्यलोकिष्ट, पिता मामेकदा तत:२ । तस्य चित्ते बभूव द्राग्, वरचिन्ता गरीयसी ॥ ७९ ॥ अस्मिन् काले समागत्य, कोऽपि नैमित्तिकः पुरः । राज्ञः समादिदेशाऽथ, निमित्तं स्वविचारितम् ॥ ८० ॥ राजस्तव तनूजाया, आभापुरपुरन्दरः । सर्वशास्त्रार्थकुशलो, भविता पतिरित्यवक् ॥ ८१ ॥ तन्निशम्याऽथ पितरौ, हर्षपर्याकुलौ बहु । सम्मान्य द्रविणं भूर्य-दातां नैमित्तिकाय तौ ॥ ८२ ॥
१. 'चन्द्रतुल्यकान्तिः ' इति टि० ।। २. [अनङ्गरमणोद्यान-यौवनाया ममेक्षणात्]' इति पाठा० ।। ३. 'पितुश्चित्ते' इति पाठा० ।।