________________
चन्द्रराजचरित्रम् योगिनं प्रत्युवाचा'ऽमुं, रे दुष्ट ! मम सन्निधौ । कथङ्कारमियं बाला, हूयते हुतभुङ्मुखे ? ।। ६३ ।। रे निघृण ! दुराचार !, कौपीनवसनाधम ! । इमां बालां मुञ्च मुञ्च, मदने तापसाधम ! ॥ ६४ ॥ मदर्शनपथायातो, यतस्त्वं न भविष्यसि ।। नहि सूर्ये तपत्येषो-ऽन्धकारस्तिष्ठति क्वचित् ?' ॥ ६५ ॥ इति श्रुत्वा वचस्तस्य, ध्यानं त्यक्त्वा स तापसः । काकनाशं ननाश द्राक्, प्रकाशे तिमिरं कुतः ? ॥६६ ॥ पलायमानमालोक्य, राजा नाऽनुससार तम् । होमस्य साधनं सर्वं, जग्राहाऽस्य कुयोगिनः ॥ ६७ ।। न हि सत्त्ववतः क्वाऽपि, कुतोऽप्युत्पद्यते भयम् । तस्य प्रभावात् सर्वेऽपि, वशमायान्ति जन्तवः ॥ ६८ ॥ अथ राजाऽप्रसन्नायाः२, कन्याया बन्धनं लघु । मुक्त्वा पप्रच्छ 'रम्भोरु!, का त्वं? कस्याऽसि नन्दना?।। ६९॥ कथमस्य वशे जाता ?, प्रीतिराभापतौ कुतः ? । तव जातेति सर्वं मे, भयं त्यक्त्वा वदाऽधुना' ॥ ७० ॥ तच्छ्रुत्वा बहुहर्षेण, विशालहृदयाऽपि सा । नाऽऽत्मानं स्तरितुं प्राभूत्, कमनीयतनुः किल ॥ ७१ ॥ राजानं स्वपतिं मत्वा, भयं त्यक्त्वा मनोरमा । बभूव हृदयेशस्य, सम्मुखे ह्रीमती तदा ॥ ७२ ॥
१. 'विननाश तदै (थै)व द्राक्, प्रकाशे तिमिरं कुतः (यथा)' इति पाठा० ।। २. 'राजाऽतिसुन्दर्याः' इति पाठा० ।।