________________
सर्गः - १ कुतोऽदो विवरं भीमं ?, कुतः कान्तारसन्ततिः? । कुतोऽयं बालिकायाश्च, श्रूयते करुणस्वरः ॥ ५३ ॥ इत्थं वितळ निष्कोशं, खड्गं हस्ते निधाय सः । चचाल शब्दमालक्ष्य, परोपकरणोद्धरः ॥ ५४ ॥ गतस्तत्र ददर्शाऽसौ, योगिनं मौनमास्थितम् । हस्ते जपवटीं कण्ठे, मालां बिभ्राणमञ्जसा ॥ ५५ ॥ अनेकधूपधूमेन, व्याप्तमत्यन्तभीषणम् । सुरक्तरक्तवस्त्रेण, परिबद्धकटीतटम् ॥ ५६ ॥ गाढध्यानपरं रुद्ध-नयनद्वयपङ्कजम् । बकवत्सुस्थिराङ्गं च, जपसंसक्तमानसम् ॥ ५७ ॥ तदने जाज्वलद्वह्नि-होमकुण्डं ससम्भृतिम् । निष्कोशीकृतखड्गोऽसौ, प्रेक्षाञ्चक्रे महीपतिः ।। ५८ ॥ तं दृष्ट्वैवाऽस्य सकल-मविवेकं विवेद सः ।। सङ्केताकारवेत्तारो, भवन्ति हि मनीषिणः ॥ ५९ ॥ तदने दृढबन्धेन, बद्धां छागसुतामिव । रुदती सुदतीमेकां, कन्यामैक्षत भूपतिः ॥ ६० ॥ 'हाहाऽऽभानगरीनाथ !, नेदानीं यदि रक्षसि । असौ पापमतिर्योगी, नियतं मां प्रहोष्यति' ।। ६१ ।। नामग्राहेण रुदती-मित्थमेतां निशम्य सः । तदने निर्भयो राजा, समागादतिसत्वरम् ॥ ६२ ॥ १. 'इति निश्चित्य' इति पाठा० ।।..२. 'महाध्यानेन संरुद्ध-' इति पाठा० ।। ३. 'अचञ्चलमिवात्यन्त-' इति पाठा० ।। ४. 'मृगवधूमिव' इति पाठा० ।।