________________
चन्द्रराजचरित्रम् ततो वृक्षादधोभूय, वटेऽश्वं परिबध्य च ।। उत्ततार स्वयं वाप्यां, जलपानाय भूपतिः ॥ ४३ ॥ स्फाटिकैर्बद्धसोपानां, हंससारसनादिताम् । प्रफुल्लकमलामोद-वासितां तां स ऐक्षत ॥ ४४ ॥ मधुमत्तालिपुञ्जस्य, गुञ्जनं मन्दमारुतः । प्रसुप्तमपि कन्दर्प-मुद्बोधयति कामिनाम् ॥ ४५ ॥ विधिपूर्वं जलं पीत्वा, स्नातुं समुपचक्रमे । अनेकक्रीडनं तत्र, चकार जगतीपतिः ॥ ४६ ॥ कदाचिन्मकरन्दानां, गन्धमाघ्राय भृङ्गवत् । उन्मनीभूय निःशङ्को', जलक्रीडां चकार सः ॥ ४७ ।। कदाचित् कलहंसानां, कलं श्रुत्वाऽतिहर्षितः ।। जिघृक्षुरिव तं दूर-मन्वधावद् धरापतिः ॥ ४८ ॥ एवं विहृत्य बहुधा, स्नानवस्त्रं विहाय सः । अन्यवस्त्रं वसित्वाऽथ, भृशमानन्दमासदत् ।। ४९ ।। अथाऽस्मिन् समये राजा, विवरं दृष्टवानिह । अनेकरत्नरचितं, सोपानं यत्र शोभते ॥ ५० ॥ तत उत्तीर्य निर्भीकः, करवालसहायकः । पातालविवरे तस्मिन्, गहनं संददर्श सः ॥ ५१ ॥ कस्याश्चित् कन्यकायाश्च, करुणं रोदनं भृशम् । शुश्राव तस्मिन् साश्चर्य, बभूव नृपतिस्तदा ।। ५२ ॥
१. 'निर्लज्जो' इति पाठा० ।।