________________
सर्गः - १ इतस्ततस्ते हरिणान्, शशकान् महिषान् किरीन् । पलायमानान् जगृहु-नारकीयानिवान्तकाः ॥ ३३ ॥ तेषु चैकं मृगं वेगाद, नश्यन्तमवलोकयन् । अश्वारूढोऽनुचक्राम, सत्वरं तजिघृक्षया ॥ ३४ ॥ बहुदूरगतोऽप्येनं, नाऽऽससाद नरेश्वरः । आयुःसत्त्वे न कस्याऽपि, कोऽपि किञ्चित् करोति हि॥ ३५॥
__ (युग्मम्) स वक्रगतिनाऽश्वेन, बहुदूरमनीयत ।। अजानस्तद्गतेश्चेष्टां, समुद्रोर्मिमिव प्रभुः ॥ ३६ ॥ दुर्दमेन हृदेवासा-वपि रुद्धखलीनकः । पवनातिगवेगेन, वाजिना दूरमापितः ॥ ३७ ॥ प्रयत्नेनाऽपि तद्वेगं, नृपो रोद्धमनीश्वरः । तृषार्तोऽचिन्तयद् युक्ति-मवताराय वाजिनः ॥ ३८ ॥ इतो वापीतटे कञ्चिद, वटवृक्षं व्यलोकत । ततशाखाशतैश्छन्नं, नानापक्षिनिनादितम् ॥ ३९ ॥ तं वीक्ष्य नृपतिश्चित्ते, चिन्तयामास 'यद्यहम् । अस्य शाखामधिश्रित्य, नीचैः स्यां तर्हि मे सुखम् ॥ ४० ॥ इति निश्चित्य सपदि, शाखामालम्ब्य वाजिनः । उत्ततार महीपालः, सोऽप्यश्वो निभृतं स्थितः ॥ ४१ ॥ तं दृष्ट्वा निश्चलं राजा, पश्चात्तापमुपागतः । अहो ! अजानता व्यर्थं, मया दूरमुपस्थितम् ॥ ४२ ॥
१. 'तेषु नष्टं मृगं राजा, पलायन्तं विलोक्य च' इति पाठा० ।। २. 'नानापक्षिमनोहरम् [युग्मकम्]' इति पाठा० ।।