________________
चन्द्रराजचरित्रम् तया सह महीपालो, रात्रिन्दिवमनाकुलः । विषयोत्थं सुखं भेजे, पौलोम्येव पुरन्दरः ॥ २३ ॥ तस्य तत्सुखमालोक्य, सुरेन्द्रोऽपि दिवानिशम् । प्रशशंस सुधर्मास्थः, पुरो नाकसदामसौ ॥ २४ ॥ अथैकदाऽश्वव्यापारी, 'वाहानादाय तत्पुरे । अनानगमद् राज-सभायां सभ्यशेखरः ॥ २५ ॥ विशालनयनानश्वान्, कुक्कुटस्कन्धकांस्तथा । मनःपवनयोर्वेग - जिष्णूनुच्चैःश्रवःसमान् ॥ २६ ॥ येषां गतिं समालोक्य, संदिहानो जनोऽभवत् ।
सुपर्णः किं विना पक्षा-वेष यातीति भूतले ? ॥ २७ ॥ विद्युत्कल्पा हि सहसा-ऽदृश्या वेल्लन्ति लाघवात् । खुराघातेन शकलान्, कुर्वाणाः पर्वतानपि ॥ २८ ॥ तौरुष्का हांसलाः श्रीमत्काम्बोजा इव तेऽभवन् । अनेकजातिसञ्जातान्, दृष्ट्वा राजा तुतोष तान् ॥ २९ ॥ तस्मै दत्त्वाऽधिकं मूल्यं, सर्वानश्वान् महीपतिः । आत्मसात्कृतवान् तज्ज्ञः, समये न हि सीदति ॥ ३० ॥ तेषु वक्रगतिः कश्चि-दश्वः परमसुन्दरः । आसीत् तत्र नृपोऽर्थेऽभून्महारागोऽतिलुब्धवत् ॥ ३१ ॥ अथैकदा महीपाल-श्चतुरङ्गबलान्वितः । तमेवाश्वं समारुह्य, मृगयायै ययौ वनम् ॥ ३२ ॥ १. 'रात्रिन्दिवमतन्द्रितः' इति पाठा० ॥ २. 'अश्वान्' इति टि० ।। ३. 'गरुडः' इति टि० ॥ ४. 'वीरः (धीरः)' इति पाठा० ।।