________________
सर्गः - १ युक्तं लङ्काऽब्धिमध्येऽगाद, यदीयसुषमा जिता । मृतिर्वा दूरसंप्राप्ति-र्माने म्लाने सतां गतिः ॥ १३ ॥ तत्र भूमौ सुदुर्गाभा, उच्चैः सौधा बभासिरे ।
औन्नत्येन सुमेरोथैरे, लघिमानं वितन्वते ॥ १४ ॥ रत्नभान्वितहाणि, शिखरश्रेणिकैतवात् । अट्टं हसन्त्युहन्तानि, दिवमालोक्य तत्र किम् ? ॥ १५ ॥ विपण्य आपणायन्ते, यस्मिन्नापणसन्ततिः । रत्नाकरायते वीथी, रोहरागति' सर्वतः ॥ १६ ॥ व्यापारिणो नृपायन्ते, नृपोऽपीन्द्रति सम्पदा । कुबेरन्ति महेभ्याश्च, यस्मिन् पुरवरेऽनिशम् ॥ १७ ॥ रथ्यासु राजमार्गेषु, चन्दनाक्तजलाप्लुतिः । पारिजाततरोरेषा, सुषमामप्यचूचुरत् ॥ १८ ॥ तत्र श्रीवीरसेनाह्वो, राजा राज्यमपालयत् । यस्य प्रभावादरयो, मुनिवेषमदीधरन् ॥ १९ ॥ प्रसादे चन्द्रति श्रीमान्, प्रतापे मिहिरायते । दाने कर्णायते दण्डे, पितृराजायतेऽप्यसौ ॥ २० ॥ तस्य वीरमतीनाम्नी, देवी सर्वाङ्गसुन्दरी । तद्रूपेण जिता नूनं, रतिर्दृश्या न भूतले ॥ २१ ॥ तडिद्वा किमु ? तारावा?, ज्योत्स्नावासा हिमश्रुतेः ? । तामालोक्य जना एवं, विवदन्ते परस्परम् ॥ २२ ॥ १. 'सुषमामवलोक्यैव, यस्या लङ्काऽपि सत्त्वरम् । जम्बूद्वीपमतिक्रम्य, समुद्रतटमभ्यगात् ।।' इति पाठा० ।। २. 'क्षौमा' इति पाठा० ।।, 'प्रासादाः' इति टि० ।। ३. 'ये मेरु-' इति पाठा० ।। ४. 'सुधाधवलहाणि स्वसम्पत्त्या भृशं किल ।' इति पाठा० ।। ५. 'रोहणपर्वतायते' इति टि० ।। ६. 'सूर्यायते' इति टि० ।। ७. 'यमायते' इति टि० ।। ८. 'आसीद् यस्याः स्वरूपेण, रतिरप्यतिविह्वला (-लज्जिता) (-रतिंगता)' इति पाठा० ।।