________________
चन्द्रराजचरित्रम् आबाल्यब्रह्मनिष्ठं तं, गुरूणां गुरुनायकम् । श्रीनेमिसूरिसम्राजं, वन्दे कारुण्यविग्रहम् ॥ ५ ॥ शान्त्याचान्तमृदुस्वान्तं, भव्यसेव्यपदाम्बुजम् । वन्दे विज्ञानसूरीशं, महान्तं सुधियं गुरुम् ॥ ६ ॥ कुन्देन्दुघनसाराभां, कलहंसासनां सुरीम् । मूकस्याऽपि वचस्वित्व-कारणं नौमि शारदाम् ॥ ७ ॥ क्वाऽहं मन्दमतिर्नूनं, कूपमण्डूकसन्निभः । क्वाऽसौ महाधीः श्रीचन्द्र-स्त्रिजगच्चन्दिसद्यशाः॥ ८ ॥ तथाऽपि तस्य चरितं, वच्मि त्रैलोक्यपावनम् । श्रेयसे हि कृतो यत्नो, न्यूनोऽपि न विगीयते ॥ ९ ॥
जम्बूद्वीपस्य भरत-क्षेत्रे पूर्वदिगाश्रया । 'आभे'ति नाम्नी नगरी, विद्यते पूधुरन्धरा ॥ १० ॥ आभेव सर्वजगतः, सर्वसंस्कारबन्धुरा । यामपेक्ष्य सुरेन्द्रस्य, नगरी न गरीयसी ॥ ११ ॥ नाऽलं साऽप्यलका वाऽपि, रत्नद्वीपोऽथवा कुतः ? । तस्याः समत्वं लभते ?, किमन्धुः सिन्धुवद् भुवि ? ॥ १२ ॥
१. 'वन्दनीयपदाम्बुजम्' इति पाठा० ।। २. 'महान्तं करुणालयम्' इति पाठा० ।। ३. 'प्रणम्य शारदां चन्द्र-चरित्रं प्रणयाम्यहम्' इति पाठा० ।। ४. 'क्वाहं लघिष्ठो भूमिष्ठः, कूपमण्डूकवत्क्रमः । क्वाऽसौ दविष्ठः श्रीचन्द्रस्त्रिजगच्चन्दितप्रभः ।।' इति पाठा० ।।, इतोऽग्रे- 'प्रकाशयति यो नित्यं, भुवनत्रितयं रुचा । कथं न स्वाश्रयां वाणी, ममाऽसौ द्योतयिष्यति ।।' इति निष्कासितः श्लोको दृश्यते ।। ५. 'स्वपराणां प्रमोदाय, भविनां तन्न संशयः' इति पाठा० ।। ६. 'रत्नसङ्कला' इति पाठा० ।।