________________
परमात्मने नमः शासनसम्राटपूज्याचार्यश्रीविजयनेमिसूरीश्वरपट्टधरपूज्याचार्यश्रीविजयविज्ञानसूरीश्वरपट्टधरप्राकृतविशारदपूज्याचार्यश्रीविजयकस्तूरसूरिप्रणीतं
चन्द्रचरित्रम् (चन्द्रराजचरित्रम्)
प्रथमः सर्गः
मङ्गलश्लोकाः यत्कृपाल वमासाद्य, प्रजाः प्रापुः सुपद्धतिम् । तमाद्यं तीर्थपं वन्दे, सिद्धिधामगतं प्रभुम् ॥ १ ॥ फणिराजफणच्छत्रं, पवित्रितजगत्त्रयम् ।। श्रीपार्श्वेशं दयासिन्धुं, मनसा प्रणिदध्महे ।। २ ।। त्रिशलानन्दनं नौमि, तं सुरासुरसेवितम् । यदीयवाक्सुधाचामाद्, भवाब्धिर्गोष्पदायते ॥ ३ ॥ गौतमाद्यान् गणधरान्, देशनामृतवर्षिणः । भव्यकैरवशीतांशून्, नौम्यन्धतमसच्छिदे ॥ ४ ॥
१. 'मूको वाचस्पतीयते' इति पाठा० ॥ २. 'शू-नाश्रयेऽन्धतमसच्छिदे' इति पाठा०।।