________________
२९२
अनन्तरं मोक्षपदं प्रपन्नवान्,
धुनोतु नोऽसौ दुरितानि सर्वशः ।। २२१ ।।
सुमत्यभिख्यः शिवतः कुमारको,
गुणावली संयमिनी च प्रेमला ।
अवाप्य कालक्रमतोऽमलां मतिं,
प्रपेदिरे मोक्षपदं सनातनम् ।। २२२ ।।
अगुर्दिवं श्रीशिवमालिकादयो,
व्रतिन्य एताः समये समागते ।
महाविदेहे सुरलोकतस्ततो
चन्द्रराजचरित्रम्
ऽवतीर्य सेत्स्यन्ति पुनर्धृतव्रताः ।। २२३ ।।
अनन्तरं श्रीमणिशेखरो नृप:,
पितेव राज्यं सुशशास नीतितः ।
नियोज्य चाऽर्थं सुकृते समातनोद्',
यशो जगत्यां परिपूर्णचन्द्रभम् ।। २२४ ।।
(वसन्ततिलकावृत्तम्)
जीयादियं गुरुजनस्य महामहिम्ना,
चित्तप्रसादनकरी शुभहेतुद्धा" ।
१. ' - मतो हि केवलं, ' इति पाठा० ।। २. 'धर्मतः ।' इति पाठा० ।। ३. ‘अनेकसौख्येन सबन्धुरातनोद्' इति पाठा० ।। ४. इतोऽग्रे - 'भुवनतल-मलञ्चकार शश्वन्निजयशसा मणिशेखरो महीपः । जनकसदृशकान्तिमाप धर्मात्, प्रकृतिजनं परिरञ्जयन् सुनीत्या ।।' इति निष्कासितो श्लोको दृश्यते ।। ५. 'जनताऽनुकूला ।' इति
पाठा० ।।