________________
२९१
सर्गः - ७ व्यधुर्मुनेरध्ययनं श्रुतस्य च,
गुरोः सकाशात् स्थविरस्य यत्नतः ॥ २१६ ॥ श्रीचन्द्रराजर्षिरुदारभावां'
श्चारित्रमास्थादतिचारवर्जितम् । प्रतप्यमानस्तप आरुरोह स,
ध्यायंश्च शुक्लं क्षपकालिमञ्जसा ।। २१७ ।। स घातिकर्मक्षयतोऽचिरं मुनिः२,
समीयिवान् केवलमुज्वलं परम् । महोत्सवं तस्य सुरा व्यधुस्तदा,
प्रसन्नचित्ताः सुमवर्षणादिभिः ।। २१८ ॥ सुरैः कृते स्वर्णमयेऽम्बुजे तदा,
स चन्द्रराजर्षिवरोऽपि संस्थितः । भवाम्बुधौ नावमिवोपदेशनां,
चकार भव्यश्रवणप्रहर्षिणीम् ।। २१९ ॥ विहृत्य सोऽनुक्रमतोऽथ केवली,
जगाम सिद्धाचलमत्र मासिकीम् । विधाय संलेखनिकां चरित्रस
त्पर्यायमापाल्य सहस्रहायनीम् ।। २२० ॥ त्रिंशत्सहस्राब्दिकमायुरेष च,
समाप्य कर्मक्षयतो मुनीश्वरः ।
१. '-भावक-' इति पाठा० ।। २. -चिरेण हि' इति पाठा० ।। ३. 'मुनिः।।' इति पाठा० ।।