________________
२९०
चन्द्रराजचरित्रम् उवाच 'दीक्षा मुनितो ग्रहीष्यते,
मयाऽधुना, 'वित्तमिदं प्रिये ! मम' ।। २११ ॥ निवार्यमाणोऽपि न वल्लभागिरा,
व्रताद् व्यरंसीनृपतिविरक्तिमान् । ततः प्रियाभ्यामनुमोदितं मुदा',
निवारयन्ते सुकृतान्न सजनाः ।। २१२ ॥ नृपासने श्रीमणिशेखरं सुतं,
निवेश्य चाऽन्यांस्तनयान् यथायथम् । पुरे विभक्ते च नियोज्य सन्मति
महोत्सवैरागतवान् मुनेः पुरः ।। २१३ ॥ महोत्सवं श्रीमणिशेखरो व्यधात्,
तदीयदीक्षासमये समन्ततः । उपाददे चन्द्रनृपो विरक्तधी
र्मुनेश्च दीक्षां सकलार्थदायिनीम् ।। २१४ ।। तदा स्त्रियश्चन्द्रमहीपतेर्भवाद्,
विरक्तचित्ताश्च शतानि सप्त ताः । सुमत्यमात्योऽपि नटादयोऽपि ते,
व्रतं ललुः सुव्रतपादपार्श्वतः ।। २१५ ॥ स चन्द्रराजर्षिरपारबुद्धिमां
___ स्तथा सुमत्यादिमुनीश्वरा अपि ।
१. ज्ञातम्' इति टि० ।। २. 'व्रतं' इति पाठा० ।। ३. 'सुमत्यभिख्योऽपि' इति पाठा० ।। ४. '-बुद्धिक-' इति पाठा० ।।