________________
२८९
सर्गः - ७ 'अहो प्रभो ! त्वद्वचनान्ममाऽमलात्',
पुरातनं ज्ञानमभूच्च साम्प्रतम् । प्रदाय दीक्षां भवसागरान्मुने !,
___ दुरापपारात् खलु तारयाऽधुना ।। २०६ ।। न मे त्वदन्यः परितारकः प्रभो !,
समस्ति संसारसमुद्रतो गुरो ! । दयामतुल्यां मयि संविधाय तत्',
शरण्य ! हे मामधुना समुद्धर ।। २०७ ।। सदैव राज्ये परिलुब्धमानसो,
मनागपि श्रीपरमेश्वरं नहि । व्यचिन्तयं वैषयिकं सुखं त्वह
मभुक्षि हालाहलसन्निभं सदा' ॥ २०८ ॥ इति प्रकामं प्रविषण्णमानसं,
नृपं समालोक्य जगाद तीर्थपः । 'गृहाण दीक्षां भवपाशमोचिनी,
यतो भवेत् ते सकलं शुभं नृप !' । २०९ ॥ इति प्रभोर्वाक्यमसौ निशम्य तं,
जिनेशमूचे विहिताञ्जलिर्नृपः । 'गुरो ! सुते राज्यधुरां यथायथं,
समर्प्य नेष्यामि द्रुतं त्वदन्तिके' ।। २१० ।। समाजगाम स्वगृहं ततो नृपो,
गुणावलीं श्रीमकरध्वजात्मजाम् । १. '-ममाऽपि हि,' इति पाठा० ।। २. 'हि' इति पाठा० ।। ३. 'निवेश्य च' इति पाठा० ।। ४. 'समेमि तावत् त्वमिहाऽऽस्व तीर्थराट् ।।' इति पाठा० ।।