________________
२८८
पुरानिबद्धं कठिनं च कर्म यत्
विपाक एषोऽस्ति नरेन्द्र ! तस्य ते ॥ २०० ॥
शुकस्य जीवः स च कालयोगतो,
बभूव राज्ञः कपिलाख्यधात्रिका |
परस्परं पूर्वभवे हि कारणं,
बभूव सा क्लेशभरस्य सर्वथा ।। २०१ ।।
नृपालपुत्र्या अथ मन्त्रिपुत्र्याः,
पतिर्य आसीज्जितशत्रुभूपजः ।
स शूरसेनो मृतिमाप्य दैवतः,
शिवात् कुमारो नटराडजायत ।। २०२ ।।
पुराभवे याऽजनि किङ्करी च सा,
चन्द्रराजचरित्रम्
श्रीरूपमत्या इह कालयोगतः ।
नटाधिराजस्य शिवस्य पुत्रिका
ऽभवत् कलाज्ञा शिवमालिकाभिधा ।। २०३ ॥
सहिंसकोऽजायत दुष्टधीवरः,
शुकस्य यो रक्षणकर्मकारकः ।
इमे समस्ता अपि कालयोगतो,
rasa जाता निजकर्मयन्त्रिताः' ।। २०४ ।।
निशम्य चैवं नृपतिर्निजं भवं,
"
स्वकीयप्राग्जन्मभवां स्मृतिं ततो,
चमत्कृतोऽभूल्लभते स्म तत्क्षणे ।
विरक्तचित्तोऽजनि संसृतेरलम् ' ।। २०५ ।।
१. 'तस्यैव पाको नृपराडयं तव ।।' इति पाठा० ।। २. ' - संसृतेरथ' इति पाठा० ।।