________________
२८२
निशम्य तद्वाक्यमसौ नृपाङ्गजा,
समाददे तद्वसनाच्च कर्णिकाम् ।। १७० ।।
प्रभर्त्स्य तां सा ससखीजनाऽगमत्,
तदैव साऽपि व्रतिनी शुचाकुला । गलेऽथ रज्जुं परिबध्य चाऽऽत्मनो,
'विमोचनायाऽध्यवसायमातनोत् ।। १७१ ।।
श्राद्धा हि काचित् सुरसुन्दरी तदा,
समागमत् तामवलोक्य तद्विधाम् ।
न्यवारयत् सा व्रतिनीं सुभाषितै
चन्द्रराजचरित्रम्
रनर्थरोधो हि सतां सुलक्षणम्' ।। १७२ ।।
विराटदेशे जितशत्रुभूपतेः,
सुतस्तदीयः किल शूरसेनकः ।
तस्मै समभ्यर्थयितुं नृपात्मजां,
तदीयमन्त्री मदनभ्रमं ययौ ।। १७३ ।।
'राजंस्त्वदीयात्मभवानुरूपको,
श्रीशूरसेनो जितशत्रुभूपजो
वरोऽस्ति सर्वैः सुगुणैः समन्वितः ।
ऽनयोर्विवाहो भवताऽनुमन्यताम्' ।। १७४ ।।
निशम्य तद्वाक्यमसौ नृपस्तदा,
समाह्वयन्मन्त्रिणमाशु धीसखम् ।
१. 'प्रमो-' इति पाठा० ।। २. 'तत्राऽन्तरेऽगादवलोक्य तां तथा ।' इति पाठा० ।।
३. ' -र्न्यवर्तताऽसौ च ततः स्वघाततः ।। ' इति पाठा० ।।