________________
सर्गः
-
७
सुतार्पणं मन्त्रितवांश्च तेन यद्,
विमृश्यकारी न कदाऽपि सीदति ।। १७५ ।।
सखीजनात् स्वीयविवाहनिश्चयं,
निशम्य भूपालसुता न्यवेदयत् ।
'यदा भवेन्मन्त्रिसुताऽत्र सम्मता,
तदा करिष्यामि विवाहमङ्गलम्' ।। १७६ ।।
विनिश्चयो 'नौ वर एक एव यत्',
समं व्रियेवेत्यत एव तन्मतम् ।
विलङ्घ्य नाऽहं वरयामि कञ्चने'
४
त्यवैनृपः श्रीमदनभ्रमस्ततः ।। १७७ ।।
'नृपोऽवदन्मन्त्रिवरं मनीषितं,
'प्रकाशय स्वं स्वसुतार्पणे सखे !' ।
उवाच मन्त्री 'तव यच्च सम्मतं,
तदेव मेऽप्यत्र विभाति साम्प्रतम्' ।। १७८ ।।
तदीयभावं परिबुध्य भूपति
२८३
विनिर्णिनायाऽथ विवाहवासरम् ।
जगाद 'मन्त्रिन् ! व्रज तद्दिने तव,
नृपः समागच्छतु पुत्रसङ्गतः ' ।। १७९ ॥
विराटदेशाधिपतिः स्वमन्त्रितो,
निशम्य वाक्यं सहसा समुद्धतम् ।
१. 'व्यचीचरत् तेन सुतार्पणं ततो, विचारणीया हि करग्रहक्रिया ।।' इति पाठा० ।। २. 'चेत्' इति पाठा० ।। ३. 'तदा वियेतेत्यत एव 'तन्मतान् ।' इति पाठा० ।। ४. ‘अहं करिष्यामि विवाहमित्यसा- ववैन्नृपः श्रीमदन भ्रमस्ततः । । ' इति पाठा० ।। 'न्यवेदयन्' इति पाठा० ।।
५.