________________
सर्गः - ७
२८१ अवेक्ष्य नो कर्णविभूषणं, सखीं,
जगाद सा 'वञ्चयसेऽलि ! कथं सखि ! ॥१६५ ।। प्रदेहि मे भूषणमि'त्यमात्यजा
वचो निशम्याऽथ जगाद साऽपि ताम् । 'मया न दृष्टा सखि ! कर्णिका तव,
न वञ्चये त्वां शपथं करोम्यहम् ॥ १६६ ॥ समागताऽत्राऽद्य गुरुस्तवैव सा,
गता विभूषां किमु चोरयित्वा' ? । अतोऽधुना तत्र चल प्रशोधय,
तदीयवेश्मादिकमि'त्युवाच सा ॥ १६७ ।। निशम्य तद्वाक्यमुवाच मन्त्रिसू
'र्न साऽग्रहीन्मे वचनात् तथाऽपि ते । चलाम्यहं तद्भवनं', समेत्य सा,
नृपाङ्गजा तां व्रतिनी रहस्यवक् ॥ १६८ ।। 'यदि त्वयाऽग्राहि तदीयकर्णिका
प्रदेहि तां साध्वि ! भवेत् ततः शुभम् । न चेत् तवाऽत्राऽऽशु विगर्हितां दशा
___ममात्यवर्यः प्रविधास्यति ध्रुवम् ॥ १६९ ।। तदीयवाक्यं प्रणिशम्य सा जागौ,
'मया गृहीता यदि सा गवेष्यताम्' । १. 'वञ्चयसेऽलि ! मां कथम् ? ।।' इति पाठा० ।। २. 'इतः समागत्य' इति पाठा० ।। ३. 'गता विभूषां तव प्रायशोऽग्रहीत् ।' इति पाठा० ।।