________________
२८०
नृपाङ्गजा विष्णुमतावलम्बिनी,
प्रधानपुत्री च जिनेश्वरार्चिका ।। १६० ।।
परस्परं द्वे स्वमतं सदैव ते,
प्राशंसतां तत्र किलैकदा ततः ।
नृपाङ्गजा मन्त्रिसुतामवोचत,
'गुरुस्त्वदीया मलिनाकृतिः सदा ।। १६१ ।
तवाऽऽङ्गणे प्रत्यहमेति साध्विका,
सुनिश्चितं सा परिमुष्य किञ्चन ।
कदापि यास्यत्यत एव तां सखि !,
चन्द्रराजचरित्रम्
निवारय त्वं पुनरागमाद् गृहे' ।। १६२ ।।
निशम्य तस्या वचनं निनिन्द सा,
नृपालपुत्रीं बहु, 'मेदृशं वद' ।
अथैकदामात्यसुता निजश्रवो
विभूषणं राजसुताऽग्रतो न्यधात् ।। १६३ ।।
तदाऽऽगता सा व्रतिनी तदोकसि,
विशुद्धभिक्षाग्रहणाय सन्मतिः ।
बबन्ध तस्या वसने नृपाङ्गजा,
श्रवोविभूषां न विवेद सा यथा ।। १६४ ।।
अगात् स्वभिक्षां परिगृह्य सा यदा,
तदा प्रधानस्य सुता समागमत् ।
१. 'शैव-' इति पाठा० ।। २. 'प्रधानपुत्री किल जैनधर्मिका ।।' इति पाठा० ।। ३. ‘मलधारिणी' इति पाठा० ।। ४. 'अमात्यजा मौक्तिकहारमेकदा, नृपाङ्गजायाः पुरतो बबन्ध ह ।।' इति पाठा० ।। ५. ' तर्हि तत्' इति पाठा० ।।