________________
सर्गः - ७
२७९ जगत्यमुष्मिंस्तव नाऽस्ति किञ्चन, प्रभोऽपरिज्ञातमतोऽर्थयेऽञ्जसा" ॥ १५५ ॥ त्रिभिः कुलकम् निशम्य तद्वाक्यमुवाच सुव्रतः२ (१५७-२०५),
"शृण्वस्ति वैदर्भ इति प्रथागतः । सुरम्यदेशस्तिलकापुरी पुरी,
बभूव तस्यां मदनभ्रमो नृपः ।। १५६ ।। प्रियाऽभवच्छीकमलाभिधा यका,
विशिष्टशीला च तयोः सुता तथा । बभूव नाम्ना तिलकादिमञ्जरी,
स्वरूपसंलजितकामवल्लभा ॥ १५७ ।। साऽभूच्च बाल्याजिनधर्मखण्डिनी,
मिथ्यामतिर्विष्णुमतावलम्बिनी । अभक्ष्यभक्ष्यादिविवेकवर्जिता,
परापकी विषवल्लिकोपमा ॥ १५८ ॥ सुबुद्धिनामा सचिवोऽस्य तत्सुता
ऽभवत् सुरूपा किल रूपमालिका । अनारतं धर्मपरा तयोरभूद,
विशेषसौहार्दमनन्यसन्निभम् ।। १५९ ॥ विनिश्चयं ते कुरुतः स्म कन्यके,
'यदेक एव स्वपतिर्वरिष्यते ।
१. '-ब्रवीतु माम्' इति पाठा० ।। २. 'तीर्थपः' इति पाठा० ।। ३. 'विभाति, राजा मदनभ्रमोऽभवत् ।।' इति पाठा० ।। ४. 'प्रियाऽभवच्छीकमलेति तस्य हि, रूपेऽनुरूपा चपलेव तत्सुता ।' इति पाठा० ।। ५. 'धर्मेऽपि' इति पाठा० ।। ६. 'मधादिसक्ता' इति पाठा० ।। ७. 'रूपमती' इति टि० ।। ८. 'एवाधिपतिर्वरिष्यते' इति पाठा० ।।