________________
२७८
चन्द्रराजचरित्रम् रथाश्वपत्तीन् गजसैन्यसारथीन्,
सुसज्जयैष्यामि जिनेश्वराग्रतः' ।। १५० ॥ निशम्यं सजं विदधे तदैव स,
जगाम राजा सपरिच्छदो मुदा । अतीवभाग्यान्मुनिवर्यसङ्गमं,
प्रलिप्सुरौदार्यगुणोऽतिभक्तिमान् ॥ १५१ ॥ उपेत्य तीर्थङ्करपादशोभितं,
पदं मुनीशं विधिवननाम सः । भवाम्बुधौ नौसदृशीं सुदेशनां,
नृपस्तदीयामशृणोत् समाहितः ।। १५२ ।। निशम्य कर्णामृतमस्य सद्वचो,
नृपो जिनं प्राह कृताञ्जलिस्ततः । "प्रभो ! विमाता किमु कुक्कुटं व्यधाद् ?,
रुषान्विता मामपराधवर्जितम् ॥ १५३ ।। नटेन च प्रेमलयाऽपि मेलनं,
___मनुष्यभावो गिरिराजसङ्गमात् । समाचरद्धिंसकमन्त्रिराट् छल,
कथं च कुष्ठी किल सिंहलात्मजः ? ॥ १५४ ॥ गुणावलीसङ्गतिरप्यभूच्च मे,
समस्तमेतद् वद केन कर्मणा । १. 'जिनम् ।' इति पाठा० ।। २. 'प्रणम्य तस्थौ स्वयथोचितासने, जिनो जंगादाऽथ च धर्मदेशनाम् ।।' इति पाठा० ।। ३. 'मनुष्यरूपं गिरिराज सङ्गमाद्, नट्याऽटनं प्रेमलिकोपलम्भनम् (-दवाप्य लब्ध्वा मकरध्वजात्मजाम्-पाठा०)' इति पाठा० ।। ४. 'यथा' इति पाठा० ।। ५. 'छलं' इति पाठा० ।।