________________
सर्गः
-
७
अतीवसौन्दर्यजुषं प्रभाविनं',
सुतं स्म सूते 'मणिशेखारा भिधम् ।। १४५ ।।
समानभावं तनयद्वये पिता,
चकार शम्भुस्तनयद्वये यथा ।
निविश्य चोत्सङ्गतले नृपस्य ता
वुभौ रवीन्दूपमितौ विरेजतुः २ ।। १४६ ।।
अतीत्य तौ शैशवमेवमञ्जसा,
किशोरभावं ययतुर्गुणोज्ज्वलौ ।
समन्वितौ क्रीडनकादि चक्रतुः ३ ।। १४७ ।।
अमात्यपुत्रैः पुरबालकैस्तथा,
नृपाङ्गजौ तौ पठितुं गतौ पुनः ४,
विशिष्टबुद्धी गुरुसन्निधौ रसात्' ।
शिशिक्षतुर्निर्मलबुद्धियोगतः ।। १४८ ।।
अनल्पकालेन कलाकलापकं,
२७७
इतः समागत्य नृपं न्यवेदय
समागमत् सुव्रतनामतीर्थपो, '
दुद्यानपस्त्वत्कुसुमावनौ मुनिः ।
निशम्य राजा मुमुदे भृशं ततः ।। १४९ ।।
ददौ च तस्मै बहु पारितोषिकं,
न्यदिदेतर्हि नृपोऽथ मन्त्रिणम् ।
१. 'मनोरमं ' इति पाठा० ।। २. ' - वुभौ रमेते स्म सुचारु नन्दनौ ।।' इति पाठा० ।। ३. ‘अनुक्रमाच्छैशव - माविहाय तौ, किशोरभावं परिलभ्य सर्वदा । गजाश्वपृष्ठे परिरुह्य जग्मतु-रितस्ततः क्रीडनलालसावुभौ ।।' इति पाठा० ।। ४. 'च प्रेषितौ' इति पाठा० ।। ५. 'भृशम्' इति पाठा० ।।