________________
२७६
चन्द्रराजचरित्रम्
दिवश्चयुतः कोऽप्यमरः समागमद्,
गुणावलीकुक्षिमतीवपुण्यवान् । दिनेऽथ पूर्णे सुषुवे मनोहरं,
कुमारकल्पं तनयं नृपाङ्गना ।। १४१ ।। कुमारजन्माक्षरेशंसकाय स,
तथा व्यतारीनृपतिर्धनं तदा । यथा स लक्ष्मीश्वर एव जातवान्,
अयोमणिः स्पर्शमणेहि जायते ॥ १४२ ।। दरिद्रवत् प्राप्य मणिं सुतं शुभं,
मुमोद चन्द्रः सहितः प्रियागणैः । शुभे मुहूर्ते सुविचार्य शुद्धधीः,
दधौ समाख्यां 'गुणशेखरे ति च ।। १४३ ॥ वलक्षणपक्षस्थसुधांशुवत्क्रमात्',
दिने दिने वृद्धिमवाप नन्दनः । पितुर्मुदं पोषयति स्म सर्वदा,
मनोभवाभः शिशुलीलया लसन् ।।१४४ ।। यथा जयन्तं सुषुवे पुलोमजा,
तथैव पुत्री मकरध्वजस्य च । १. 'दिने प्रपूर्णे' इति पाठा० ।। २. '-जन्मोत्सव-' इति पाठा० ।। ३. 'बभूव लक्ष्मीश्वर एव नो पुन-रकिञ्चनत्वं भवति स्म तज्जने ।।' इति पाठा० ।। ४. 'यथा दरिद्रः समवाप्य मोदते, धनं, तथाऽसौ नृपतिः सुतोद्भवम् । मुदं प्रलभ्य प्रविचार्य भं ('नक्षत्रम्' इति टि०) तदा, दधौ समाख्यां 'गुणशेखरे ति हि ।।' इति पाठा० ।। ५. '-शुसन्निभो' इति पाठा० ।। ६. 'मनोभवाभोऽमरपादपायितः ।।' इति पाठा०।।